ratnavali -17 sanskritanuvadak pan. gulam dastageer in Hindi Classic Stories by रामगोपाल तिवारी books and stories PDF | रत्नावली-17 संस्कृतानुवादकः पं. गुलामदस्तगीरः

Featured Books
  • ખજાનો - 86

    " હા, તેને જોઈ શકાય છે. સામાન્ય રીતે રેડ કોલંબસ મંકી માનવ જા...

  • ફરે તે ફરફરે - 41

      "આજ ફિર જીનેકી તમન્ના હૈ ,આજ ફિર મરનેકા ઇરાદા હૈ "ખબર...

  • ભાગવત રહસ્ય - 119

    ભાગવત રહસ્ય-૧૧૯   વીરભદ્ર દક્ષના યજ્ઞ સ્થાને આવ્યો છે. મોટો...

  • પ્રેમ થાય કે કરાય? ભાગ - 21

    સગાઈ"મમ્મી હું મારા મિત્રો સાથે મોલમાં જાવ છું. તારે કંઈ લાવ...

  • ખજાનો - 85

    પોતાના ભાણેજ ઇબતિહાજના ખભે હાથ મૂકી તેને પ્રકૃતિ અને માનવ વચ...

Categories
Share

रत्नावली-17 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-17 संस्कृतानुवादकः पं. गुलामदस्तगीरः

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 17

कदा कदा जीवने आनन्दस्य अनन्त - सम्भावनाः दृश्यमानाः भवन्ति । तदा पूर्वतनीयाः सर्वे आघाताः परिपूर्णतां गच्छन्ति । युगानुयुगं यावत् जीवनाय इच्छा भवति । यद् जीवनम् अधिक्षिप्तं भवति स्म तदेव प्रशंसनीयं भवति । शिरसि रामचरितमानसस्य प्रतिकृतिं संस्थाप्य सर्वैः अपि प्रवासिभिः सह सा चलन्ती गच्छति स्म तथैव च एनेन प्रकारेण किं किं चिन्तनं कुर्वती अपि पदक्रमणं करोति स्म इति न ज्ञायते । रामचरितमानसस्य प्रतिलिपिः सर्वेऽपि राजापुरवासिनः यथाक्रमं शिरसि धारयित्वा मार्ग - क्रमणं कुर्वाणाः आसन् । सर्वेऽपि यावन्मार्गं तावत् एतस्यामेव प्रतीक्षायाम् अभवन्, यत् कदा सः प्रतिलिपिः शिरसि धारणे प्राप्स्यति ? रत्नावली आरात्रौ चिन्तितवती नार्याः जीवनम् अमरलता इव । सा पराश्रिता भूत्वा एव जीवनं यापयन्ती अस्ति । युग - युगानां परम्परायाः नागपाशेन सा बद्वा अस्ति । तस्यां कीदृशे अपमाने सति अपि कपोले प्रेम्णः यदा एका चपेटिका प्राप्ता भवति तदा तस्याः सर्वे अभियोगाः परास्ताः भवन्ति । रामचरितमानसस्य प्रतिकृतिं दत्त्वा ते एतां चपेटिकां मह्यं दत्तवन्तः, यत् अहं तेषाम् एव गुणकीर्तनं करोमि ।

यदा सर्वे प्रवासिनः राजापुरं प्राप्तवन्तः तदा एषा वार्ता विद्युत् गतिवदेव सम्पूर्णे परिसरे प्रसृता अभवत् यत् रत्नामाता तीर्थयात्रातः प्रत्यागता अस्ति, एवमेव सा स्वया सह रामचरितमानसस्य प्रतिलिपिं गृहीत्वा आगता अस्ति । परिसरीयाः जनाः एकत्रिताः भूत्वा वाद्य - वादक - वृन्देन सह ग्रामाद् बहिस्तः एव तां नेतुं समागताः आसन् । रत्नामातुः गृहे यदा सर्वे प्राप्तवन्तः तदा तत्र ग्रामस्थाः सर्वे जनाः उपस्थिताः जाताः आसन् । प्रतिलिपिः एकस्मिन् पीठे स्थापिता जाता । यत्र येन स्थानं प्राप्तं तेन तत्र उपवेशनं कृतमिति क्रमेण सर्वे उपाविशन् । ततः सर्वेऽपि यात्रायाः स्थिति - गतिः विषये अपृच्छन् । गोस्वामिवर्याणां चलन - चालनविषये अपि अपृच्छन् । आगच्छन्तः सर्वेऽपि यात्रिकाः भिन्न - भिन्न समुदायेषु स्व - स्वानुभवान् श्रावयन्तः अतिष्ठन् । सर्वेऽपि मुक्तकण्ठेन गोस्वामिवर्याणां प्रशंसां कुर्वन्ति स्म । गणपतिः स्वस्य उत्सुकतां विलुप्तां कर्तुं नाशक्नोत् । सः रत्नामातरमुक्तवान् - ‘‘मातः रामचरितमानस श्रवणस्य इच्छा तीव्रा जाता अस्ति ।’’

हरकोमहोदया तत् - कथने हस्तक्षेपं कृत्वा अकथयत् -‘‘बन्धो, अद्य माता विश्रामं गृह्णातु ननु । श्वः आरभ्य मानसपाठारम्भं करिष्यति ।’’

एतदाकर्ण्य रत्नावली स्वमनःस्थं विचारं व्यक्तवती - ‘‘एतादृशी श्रान्ता नास्मि, अद्य आरभ्य एव किंचित् पाठारम्भं करोमि । एवं करणीयं सर्वैः अपि अपराह्ने तृतीये प्रहरे दिनास्तं गमनात् पूर्वमेव आगन्तव्यम् ।’’

सर्वेऽपि उत्थितवन्तः - ‘‘मातः, जयतु जयतु सीतारामः ।’’

रत्नावल्या अपि उत्तररूपेण अभणत् - ‘‘ जयतु जयतु सीतारामः ।’’ ततः सर्वेऽपि विनिर्गताः ।

यथा समयं यावत्सर्वेऽपि स्व - स्व कार्यात् निवृत्ताः भूत्वा समागतवन्तः । पीठे पटः विस्तृतः कृतः । मानसं त्रिपदीयासने मण्डितं जातम् । रत्नावल्या पीतवस्त्रेण आवृत - मानस - प्रतिलिपिः प्रीत्या एव उद्घाटिता । सुन्दर - लेखन - कार्यं दृष्ट्वा तस्याः मनः आनन्दितम् अभवत् । सर्वप्रथमं रत्नामात्रा श्रीराम नाम - स्मरणं कृतम् । तत्पश्चात् मानस - पाठारम्भः मया कृतः । सस्वरं पाठं सर्वे एव मन्त्रमुग्धाः भूत्वा शृण्वन्तः अतिष्ठन् । सर्वेऽपि अमन्यन्त यत् रत्नामाता नहि, प्रायः स्वयं साक्षात् सरस्वती एव सस्वरं पाठं करोति ।

दीर्घकालं यावत् पाठः प्राचलत् । यदा पाठः स्थगितः जातः तदा जनाः पुनरपि श्रवणार्थं समुत्सुकाः जाताः सन्ति इति अदृश्यत । अग्रिमदिनार्थं समयः निर्धारितः कृतः । ततश्च सर्वेऽपि विनिर्गताः । रात्रौ भुक्त्वा पीत्वा च यदा रत्नावली हरकोमहोदया च स्व - स्वशय्यायां शयाने आस्तां तदा रत्नावली ‘चैपाई’ इति चतुष्पद्यम् उच्चस्वरेण पुनरुक्तवती -

‘‘रामप्रिया पावनतुलसी इव । तुलसिदासहितहियहुलसी इव ।।’’

‘‘(रामस्य कृते सा कथा तुलसी समाना प्रिया अस्ति, रामकथा तुलसीदासस्य कृते तस्य माता - हुलसी समाना हितकारिणी अस्ति ।)’’

बहुदीर्घ - कालानन्तरम् अद्य श्वश्रवाः नाम जिह्वायाम् आगतम् । हुलसी इति नाम्नः स्मरणं प्राचलत् । कथं स्यात् सा ? तुलसीसदृशस्य पुत्रस्य त्यागः तया कथं कृतः स्यात् ? श्वशुरस्य नामधेयमपि स्मरणे आगताम् पं. आत्माराम दुबे इति । एतौ पितरौ (माता च पिता च) पुत्रत्यागस्य दुःखेन दुःखितौ भूत्वा इतः प्राचलताम् । अद्यतनीयस्य एतस्य सुखस्य अनुमानः अपि तस्मिन् समये ताभ्यां नैव कृतः स्यात् ।

मानसपाठः इति नित्य - नियमः एव जातः । सा यं प्रसंगं पठति स्म, तस्मात् एकार्धं - कथनं ध्याने तिष्ठति स्म, तत् शयनात् पूर्वमेव स्मरणे धारयित्वा तस्यैव चिन्तनं कुर्वणा सा निद्रां गच्छति स्म - ‘‘सती स्वमनसि अनुमानं कृतवती, यत् शिवेन सर्वमपि ज्ञातम् । अहं नारी सहजा, मन्दा, अज्ञानिनी च । अतः एव मया शिवात् कपटं कृतम् ।’’

माता शंकरेण सह कपटमाचरितवती । सः सर्वमपि अजानात् । ततः तेन सतीमाता अपि नाक्षम्यत । परन्तु स्वामिचरणैः स्वयं ननु मम एतावान् महान् अपराधः अक्षम्यत । नहि, एतावती कृपा सहजतया एव नैव समभवत् । अहमपि कथम् अस्मि ? यत् जानामि, तदा केषु केषु प्रसंगेषु अहं स्वयमेव स्वाम् अन्वेष्टुं प्रयासान् करोमि ।

जलपूरितायाः प्रवहमाणायाः नद्याः पारतां गमनस्य शक्तिः प्रेम्णः अन्धत्वे एव सम्भवति । ‘नारदमोहे’ नारदस्य यासां यासां मनोभावनानां चित्रणं कृतं वर्तते तत् मया अन्यत् किमपि नहि, तेषां तस्य दिनस्य व्यथायाः कथा एव अमन्यत ।

अहमपि कथमस्मि ? यत् जाने, तत् किं किं परिवर्तितं वा सरलं वा इति चिन्तने निमग्ना भवामि । न जाने, सीताराम, सीताराम इति वदन्ती कथयन्ती अहं कदा निद्रावशं गता ?

प्रतिदिनं रामचरित मानस - पाठस्य क्रमः समारब्धः जातः । प्रातः सायं च इति समयद्वये पाठः प्राचलत् । मध्याह्ने शिष्यगणः आगच्छति स्म । तेषां पाठनकार्यं गणपतिः इत्यनेन भवति स्म । समीपवर्तिषु ग्रामेषु एषा ख्यातिः प्रसृता जाता यत् रत्नामाता गोस्वामिवर्याणां रचनायाः रामचरितमानसस्य पाठं करोति । समीपवर्ति - ग्रामस्थाः अपि पाठश्रवणार्थम् आगच्छन् । मेला सदृशं दृश्यम् उपस्थितं भवति स्म । साधुसन्तः अपि तत्र आगताः । तेषां भोजन - पानादि - व्यवस्था परिसरीयैः जनैः सम्पादिता भवति स्म ।

यदा यदा मानसस्य पाठं समाप्तं कृत्वा रम्नामाता विश्रामग्रहणार्थं प्रत्यागच्छति तदा तदा मानसस्य प्रसंगेषु पतिजीवनस्य घटनाभिः सह सन्तुलनं सा करोति स्म । पितरौ (पिता च माता च) तान् बाल्यकाले एव अत्यजताम् । हरकोमहोदया तस्याः चरणसंवाहनार्थं मध्याह्ने तस्याः पाश्र्वे उपविशति स्म । चिन्तने निमग्नां तां हरकोमहोदया अपृच्छत् - ‘‘भ्रातृजाये, भवती किं चिन्तयति ?’’

रत्नावली मनःस्थान् अपि विचारान् हरकोमहोदयातः न गोपयति स्म । मनसि यत्किमपि भवति स्म, तत्सर्वं हरकोमहोदयाय निवेदयति स्म ।

मातेश्वरी - हुलसीद्वारा एतेषां परित्यागः कैकेयी द्वारा च श्रीरामस्य वनवासः । अपि अत्र कुत्रापि केषांचन प्रसंगानां समानता भवत्याः ध्याने आगच्छन्ति वा न वा ?

हरकोमहोदया विचारं कुर्वाणा उत्तरं दत्तवती - ‘‘भवती सम्यगेव कथयति । माता अनसूया इत्यस्याः प्रसंगे एवमपि भवितुमर्हति यत् गुरुवर्यैः अयं प्रसंगः भवत्याः कृते एव लिखितः अस्ति ।’’

एतत् कथनं श्रुत्वा तं प्रसंगम् अनुसृत्य मनोमनसि गुंजन्ती एव सा अवदत् - ‘‘पाठ-करण-समये तया अपि एवमेव अमन्यत, अधुना पुनः एकवारं मानसस्य एनं प्रसंगं पठित्वा पश्यामि अहम् ।’’

एनं विचारं कृत्वा रत्ना पुनः पीठासने उपाविशत् । एतस्मिन् समये अल्पाः एव जनाः आसन् । एतत् दृष्ट्वा ते सर्वे समीपमेव आगत्य उपाविशन् । रत्नामाता विगत पृष्ठानि परिवर्तितानि कृतवती पाठारम्भं च कृतवती –

‘‘सीता अनसूयायाः चरणस्पर्शं करोति स्म, एवमेव शालीनतया, विनयपूर्णतया वारं वारं तस्याः दर्शनमपि गृह्णाति स्म।।

ऋषिपत्नी अनसूया इत्यस्याः मनसि सुखस्य अधिकता आसीत् । सा च सीतायै आशीर्वादं दत्तवा स्वस्याः समीपे ताम् उपावेशयत् ।।

तस्यै सीतायै सदैव नवानि, निर्मलानि, सुन्दराणि च भूत्वा तिष्ठन्ति इति एतानि दिव्यानि वस्त्राणि, आभूषणानि च परिधातुम् अनसूयया समर्पितानि ।।

तदनन्तरम् अग्रे ऋषिपत्नी सीताम् उद्दिश्य स्त्रीणां कृते मधुर - मृदुलया वाण्या स्त्रीधर्मविषये विवरणेन अख्यात् ।।

हे राजकुमारि, भवती शृणोतु - माता, पिता, भ्राता चेति सर्वेऽपि हितकर्तारः सन्ति ।।

हे वैदेहि, अमर्यादित - सुख - दाता भवती । या स्त्री एतादृश - पत्युः सेवां न करोति इति सा स्त्री अधमा एव ।।

धैर्यं, धर्मः, मित्रं, नारी चेति एतेषां चतुर्णां परीक्षा आपत्काले एव भवति ।।

वृद्धः, रोगी, मूर्खः, धनहीनः, अन्धः, बधिरः, क्रोधी, अतिदीनः, चेति एतादृशस्य पत्युः अपमानं या स्त्री करोति सा यमपुर्यां भिन्न - विभिन्न - दुःखानि लभते ।।

वायया, वचसा, मनसा च पत्युः चरणयोः प्रेम कर्तव्यम् इति एकः एव धर्मः, एकमेव व्रतम्, एकः एव च नियमः स्त्रीणां कृते ।।

जगति पतिव्रतानां निकृष्टा, लघ्वी चेति सर्वांसां विषये निरूपणं कृत्वा आख्यामि ।।

उत्तमश्रेणीयायाः पतिव्रतायाः मनसि अयमेव भावः भवति यत् मम पत्या सदृशः अन्यः कः अपि पुरुषः स्वप्ने अपि एतस्मिन् जगति नास्ति ।

मध्यमश्रेणीया पतिव्रता परप्रतिं कथं मन्यते इति विषये सा परपतिं स्वमातरं, स्वपितरं, स्वपुत्रं चेति एव समानं सा मन्यते तथा सा तं पशयति अपि ।।

या धर्मस्य विचारं करोति, स्वकुलस्य मर्यादां च जानाति इत्यनेन भिन्ना तिष्ठति इति सा तृतीया पतिव्रता निकृष्टा अस्ति इति वेदाः कथयन्ति ।।

अवसरेण विना (पतिं दृष्ट्वा) या भयभीता भूत्वा तिष्ठति इति सा स्त्री एव एतस्मिन् जगति अधमा इति गणनीया ।।

या स्त्री स्वपतिं वंचयति, परपत्या सह च या रतिक्रीडां करोति इति सा स्त्री कल्पान्त पर्यन्तं रौरवनरके पतिता भूत्वा तिष्ठति ।।

क्षणमात्रसुखार्थं शतकोटि जन्म - जन्मान्तराणां सुखं न जानाति इति सा नखशिखान्ता दुष्टा अस्ति ।।

या स्त्री छलं त्यक्त्वा पतिव्रताधर्मं धरति सा स्त्री परिश्रमेण विना परमां गतिं प्राप्ता भवति।।

परन्तु या स्त्री स्वपत्युः प्रतिकूलम् आचरति सा स्त्री कुत्रापि गत्वा अग्रिम - जन्म गृह्णाति तदा सा परिपूर्ण - युवावस्थायामेव विधवा भवति ।।

स्त्री जन्म प्रभृति एव अपवित्रा अस्ति । तथापि सा स्त्री पति सेवां कृत्वा अनायासेन एव शुभगतिं प्राप्तां करोति ।।

पतिव्रतधर्मपालनेन न एव तुलसी भगवतः हरेः प्रिया जाता अस्ति, इति चत्वारः वेदाः अद्यापि तस्याः यशः गायन्ति ।

हे सीते, शृणु, तव नामस्मरणं पुनः पुनः कृत्वा एव स्त्रियः पतिव्रता धर्मस्य पालनं करिष्यन्ति ।।

तव प्राणप्रियः श्रीरामः एव अस्ति । पतिव्रताधर्मस्य एषा कथा संसारस्य हितार्थमेव कथिता।।

एतावत् पठित्वा सा प्रसंगे निमज्जिता जाता । सर्वे श्रोतारः अवागच्छन् - माता किमपि अनुसन्धानं कुर्वती स्थिता अस्ति । अन्यथा मध्याह्ने आतपे एव एतं प्रसंगं किमर्थं पठितवती ?

हरकोमहोदयया व्यंग्येन सूचितम् - ‘‘ एषा कथा रत्ना - हिताय एवं स्पष्टातिस्पष्टमेव लिखितं स्यात् ।’’

एतत् कथयित्वा हरकोमहोदया खिलखिलायन्ती मुक्ततया हास्यं कृतवती । परन्तु पुनरपि रत्नामाता अधिका गम्भीरा जाता । एतद् दृष्ट्वा हरकोमहोदया लज्जिता भूत्वा अभणत् - ‘‘भ्रातृजाये, क्षम्यताम्, भवत्याः गम्भीरतां न्यूनतां कर्तुं मया एतत् कथितम् ।’’

तथापि रत्नावली किमपि नोक्तवती । हरकोमहोदया अवागच्छत् - ‘भ्रातृजाया प्रसंगे निमग्ना जाता अस्ति।’

रत्नावली चिन्तयन्ती आसीत् - हरको सम्यक् एव वदति यत् माता सीता द्वारा सीताम् उपदेष्टुं का आवश्यकता आसीत् । किन्नु सीता इव विदुषी एतैः गुणैः परिचिता न आसीत् । अनेन ऊह्यते यत् ते मां पतिव्रतधर्मं शिक्षयन्ति । पतिः कीदृशोऽपि स्यात्, सः स्त्रियम् अतिवाहयेत् किन्तु पत्नी तस्य निरादरं न कुर्यात् । तस्याः तु एकः एव धर्मः, एकः एव नियमः, एकमेव व्रतम् यत् सा मनसा वाचा कर्मणा च पत्युः श्रीचरणयोः प्रेम कुर्यात् । स्वप्नेऽपि तस्याः दृष्टिः परपुरुषे न भवतु । तदा एव सा स्त्री उत्तमा । किन्तु स्वामिचरणाः तु माम् अधमस्थाने एव स्थापितां कृतवन्तः स्युः । या स्त्री पतिं धमनं करोति तथा एव माम् अपि ते धमनकारिणीम् अवगताः स्युः । तदर्थं शतकल्पसमं रौरवनरकस्य दण्डः निर्दिष्टः ।

भवन्तः नारीं तु सहजापवित्रां मन्यन्ते, किन्तु सा पतिसवया एव पवित्रा भवितुमर्हति । अहमपि भवतां सेवया पवित्रा भूतवती स्याम्, किन्तु अहं तु कुत्रचिद् अपि स्थातुं न शक्तवती । भवन्तः तु मानसं रचयित्वा अमराः जाताः। एतद् चिन्तयित्वा सा मानसं पिहितवती ।

अनया रीत्या मानसस्य प्रसंगेषु स्वस्याः तथा च स्वामिवरणानां जीवनस्य प्रतिबिम्बानां गवेषणस्यापि तस्याः प्रयत्नाः चलन्ति स्म । पत्नीवियोगेन एते अपि व्यथिताः कृताः, तेषां श्रीरामः ननु पत्नीविरहे परिभ्रमणम् अत्र तत्र कृतवान् ।

किमपि अस्तु नारीणां विषये स्वामिचरणानां मनोधारणाः शोभादायिन्यः नासन् इति एतासां कारणम् अहमेव भवितुं शक्नोमि, ततः सा मानसस्य एतानि चतुष्पद्यानि गुनगुनायमाना जाता -

दुन्दुभिः, अज्ञानी, शूद्रः, पशुः, नारी चेति सर्वे ताडनयोग्याः सन्ति ।।

अत्र ताडनस्य अर्थः बोधनम् अस्ति, पुनः नारीस्वभावविषये कविः सत्यमेव कथयति यत् तासां हृदये अष्ट अवगुणाः निवासं कृत्वा तिष्ठन्ति -

साहसता, अनृतता, चपलता, मायाविकता, भयता, अविवेकता, अपवित्रता निर्दयता चेति अष्ट अवगुणाः सन्ति ।

आश्चर्यम् । नार्याः हृदये भवन्तः अष्टावगुणानां गणनां कारयन्ति किन्तु अहम् तु पुरुषेषु अवगुणान् एव पश्यामि । तस्य पुरुषस्य अहं भावः तं पुरुषं नरकद्वारे एव स्थापयति । भवन्तः नारीम् अबलां मन्यन्ते किन्तु प्रबलायाः गुणान् अपि नविस्मरन्ति ।

कविः नारीस्वभावविषये सत्यमेव अकथयत् । स्त्रीस्वभावः केनापि प्रकारेण न अवगतः भवेत् ।।

स्व प्रतिबिम्बं निगृहीतं भवेत्, परन्तु नारीगतिः ज्ञातुं न शक्यते ।।

एतादृशं किं वस्तु अस्ति यस्य अग्नौ दहनं न भवति इति, समुद्रे किं नहि समावेष्टुं शक्नोति ?

परन्तु स्त्री किं कर्तुं न शक्नोति ? संसारे कालः किं भक्षयितुं न शक्नोति ?

यदा तया एताः पंक्त्यः रामचरितमानसे पठिताः तदा तया अमन्यत - स्वामिचरणाः अद्यापि मम विषये अप्रसन्नाः सन्ति यथा तस्मिन् दिवसे मत्कारणात् अप्रसन्नाः भूत्वा विर्निगताः आसन् ।

यदा सा पाठं पिहितं कृत्वा विश्राम ग्रहणार्थम् आगता, तदा जनाः निर्गताः ततः हरकोमहोदया एनं प्रसंगम् उपस्थापितं कृतवती - ‘‘भ्रातृजाये, मानसे नारीविषये याः भावनाः प्रदर्शिताः भवन्ति, तासां सर्वासां कृते भवती एव दोषयोग्या इति नैव मन्तव्यं भवत्या । सर्वे प्रसंगाः केवलं कथनमेव । तत्र व्यक्तिविशेषस्य किमपि महत्वम् नास्ति । महाकाव्ये प्रसंगः एव प्रमुखः भवति ।’’

तत्कथनम् अवगच्छन्ती रत्नावली प्रसंगम् अग्रे वर्धमाना वदति - ‘‘प्रसंगम् आश्रित्य यत्किमपि कथितं विद्यते तं प्रसंगं स्वोपरि आक्षिप्य अस्माभिः द्रष्टव्यम् । अयं निर्णयः अविवेकपूर्णः एव इति कथ्यमानः भवेत् । तथापि अहं स्वयमेव स्वमानसे अन्वेष्टुं प्रयत्नपरा भूत्वा स्थिता अस्मि । श्रीरामः एतस्य अपराधस्य कृते मां क्षाम्यतु । अस्तु, एषा एव मम प्रार्थना श्रीरामस्य पुरतः ।’’

एतत् सर्वं श्रुत्वा ज्ञात्वा च हरकोमहोदयायाः मनसि एकः प्रश्नः उत्पन्नः - ‘‘भ्रातृजाये, एकं कथनं मम, निरूपणीयम् ।’’

एतस्य निरूपणार्थं रत्नामात्रा प्रश्नः कृतः - ‘‘किं कथनं वर्तते ?’’

तया प्रश्नः कृतः - ‘‘अपि भवती किमेतद् न चिन्तयति यत् रामचरितमानस रचनाकरणस्य कारणं भवती नास्ति ?’’

एवं श्रुत्वा पुनरपि सा स्वमानसे अन्वेषयन्ती अवदत् - ‘‘तथा भवितुं शक्यते । परन्तु ते गभीराः सागराः सन्ति । तेषां गभीरतामापनं सरलं सहजं नहि भवति । यावत् चिन्तनं करोमि तावत् सहनं करोमि । तेषां लक्ष्मणः चतुर्दशवर्षाणि यावत् उर्मिलायाः विषये वातामपि नहि करोति।’’

हरकोमहोदया तत्कथनमाश्रित्य तस्यैव पूत्र्यर्थम् अवदत् - ‘‘गुरुवर्याः अपि लक्ष्मणवदेव जाताः सन्ति, पूर्णे मानसे कुत्रापि भवत्याः नाम अपि नहि निर्दिष्टम्।’’

एतदाकर्ण्य रत्ना अमन्यत - हरकोमहोदयायाः एतत् कथनं तया अधिकं शोभनकरम्। एवं चिन्तयन्ती सा आनन्दसागरे निमज्जन्ती अतिष्ठत् ।

एतदेव रामचरितमानसे मम उपस्थितेः सर्वाधिकं महत्त्वपूर्णं साक्ष्यम्। अहं वृथा एव रामचरितमानसे आत्मानम् अन्वेषयन्ती अस्मि। अहं मानसे कुत्रचिद् अपि स्याम्, किन्तु रामनामरटने मम विश्वासः दृढः।

मया तु बाल्यकालात् एव कबीरदासस्य ‘साखियाँ’ इति श्रुताः। तासां मननम् अपि कृतम्। शब्दात् एव सृष्टिः अजायत। शब्दः एव ब्रह्म। रामनाम्नः जपे यदा यदा वैकल्यं सम्प्राप्तम् तदा तदा देहे एकं विशिष्टं स्पन्दनम् अनुभूतम्। तस्मिन् स्पन्दने अवधानेन केचन ध्वनयः श्रुतिपथा अनुभूताः। चित्तं तेषु एव स्थिरं जातं येन ध्वनयः स्पष्टतया अनुभूताः। अनेन क्रमेण अहं श्रवणसाधनायां तल्लीना अभवम्। सम्प्रति तु अहम् अस्यां एव साधनायां भवितुं प्रयते।

कथ्यते यत् नादस्य प्रस्फुटनं गुरुकृपया एव सम्भवति। किन्तु मया तु गुरुः न स्वीकृतः। आम्, बाल्यकालात् एव कबीरदासे मम गुरुभावः वर्तते। किन्तु प्रत्यक्षं गुरुं विना मम अन्तरंगे नादस्य प्रस्फुटनम् ! सम्भवेत् तस्य अन्तःकृपा मयि स्यात्। ततः स्वामिनम् अपि रामनाम्नः वार्तां कृत्वा तस्मात् एव दीक्षिता जाता आसम्। तेषु दिनेषु सर्वत्र रामनाम एव श्रूयते स्म। तदा तारापतेः अन्तिमसंस्कारात् प्रतिनिर्वत्य जनसमुदायेन अहम् उपदिष्टा यत् अहं रामे चित्तलया स्याम्। कदाचित् रामनाम्नः तादात्म्येन एव मम साक्षात्कारः अनहदनादेन सह कारितः । तेषु दिनेषु नादकृपया विषये न जाने अहं किं किं चिन्तयती अस्मि।

- - - - - - - - -