रत्नावली-15 संस्कृतानुवादकः पं. गुलामदस्तगीरः
लेखकः
रामगोपाल ‘भावुकः’
संस्कृतानुवादकः
पं. गुलामदस्तगीरः मुंबई
सम्पादकः
डा. विष्णुनारायण तिवारी
रत्नावली - 15
यदा यदा सोमवती - अवसरः भवति तदा तदा रत्नावली स्थूलशरीरेण ननु राजापुरे भूत्वा तिष्ठति स्म । परन्तु सूक्ष्मशरीरेण सा चित्रकूट - दर्शने रममाणा भवति स्म । राजापुरे स्थित्वा अपि तस्याः नयनयोः पुरस्तात् । चित्रकूट - दृश्यानि दूरे न तिष्ठन्ति स्म ।
पाठन - पठनक्रमः स्थगितः न जातः आसीत् । छात्राः पठनार्थम् आगच्छन्ति स्म । तेन दान - दक्षिणा - प्राप्तिः चलति स्म । येन जीवननिर्वहणं भवति स्म । गणपतिः इत्यस्य अध्ययनं पर्याप्तं जातम् आसीत् । सः ग्रामस्य प्रतिष्ठिता व्यक्तिः समपद्यत । रमजानस्य अध्ययनं खण्डितम् अभवत् । तत्र तस्य परिधानवस्त्र सिद्धीकरणं सीवनं च चलति स्म । तद्विषये तद्ग्रामे तस्य एकाधिकारः एव आसीत् । सः अपि रत्नामातुः गृहं गमनागमनं करोति स्म । वस्त्राणां व्यवस्थायां रमजानः समुचितमूल्येन करोति स्म ।
सोमवतीसमये रत्नावली चित्रकूटं गन्तुं नाशक्नोत् । परन्तुपूर्ववदेव स्वामिचरणानां वार्ता - सन्देशादिकम् अधिगच्छति स्म । सोमवतीसमापयन्ते साधुमहात्मगणाः प्रत्यागच्छन् । तया साधुमहात्मनाम् एकः गणः रत्नावल्याः आश्रमम् आगतः । साधुमहात्मनः दृष्ट्वा एते जनाः निश्चयेन स्वामिचरणानां वार्तासन्देशादिकं गृहीत्वा समागताः स्युः । एतत् चिन्तयित्वा सा गृहात् बहिः आगत्य स्थिता । ते जनाः अमन्यन्त यत् एषा एव रत्नामाता अस्ति । अतः सर्वैः तस्याः चरणस्पर्शः कृतः । एतद् दृष्ट्वा सा अवदत् -‘‘भवन्तः चित्रकूटतः प्रत्यागच्छन्ति वा ?’’
तेषु एकः अवदत् - ‘‘आम् मातः ।’’
द्वितीयेन कथनारम्भः कृतः - ‘‘मातः, अस्माभिः एतत् श्रुतं वर्तते यत् यदा गोस्वामिवर्याः सोमवतीसमये चन्दनं घर्षन्ति स्म, जनाः आगत्य चन्दनं कुर्वन्ति स्म, तदा हनुमान् शुकः भूत्वा एनां दोहामिति पद्यावतिम् उद्गीर्णवान् ।’’
तृतीयेन दोहा इति पद्यावलिपाठः कृतः -
‘‘चित्रकूटघट्टस्थिते, साधुसतां सम्मर्दः ।
तुलसी घर्षति चन्दनं, कृततिलक: रघुवीर: ।।’’
चतुर्थेन उक्तम् - ‘‘हनुमता श्रीरामदर्शनं गोस्वामिवर्यान् कारितं विद्यते ।’’
अन्यसाधुना तत्कथनं वर्धमानतां नीत्वा उक्तम् - ‘‘भवद्विषये अस्माभिः चित्रकूटे श्रुतम् आसीत् । इतः प्रमाणं प्राचलत् । अतः विचारः जातः यत् भवत्याः दर्शनं गृहीत्वा अग्रे गमनम् इष्टम् ।’’
अधुनापर्यन्तं केनापि गोस्वामिचरणविषये किमपि न कथितम् । ते कुत्र सन्ति ? कथं वर्तन्ते ? इदानीं तु जनाः तेषां विषये न जाने कीदृशीं चर्चां कुर्वन्ति ?
एतत् चिन्तयित्वा तया प्रश्नः कृतः -‘‘भ्रातरः, अपि भवन्तः जनाः गोस्वामिचरणानां दर्शनं गृहीतवन्तः वा न वा ?’’
सर्वैः उक्तम् - ‘‘अहो, तेषां दर्शनग्रहणार्थं तत्र बहुसम्मर्दः जातः आसीत् मातः ! बहुकाठिन्येन अस्माभिः कथंचित् तेषां दर्शनं गृहीतम् ।’’
एतदाकर्ण्य रत्नावली उक्तवती - ‘‘बान्धवाः, भवन्तः महन्तः भाग्यवन्तः विद्यन्ते । अहमपि एकवारम् एवमेव तेषां दर्शनं कृतवती । भवन्तः तेषां दर्शनं कृत्वा अत्र आगतवन्तः । भवन्तः विश्रामं कुर्वन्तु । अरे......अरे...... हरकोमहोदये, भवती एतान् साधून् किंचित् जलं पाययतु ।’’
हरकोमहोदया ध्वनिं श्रुत्वा गृहान्तर्भागात् जलपूर्णं पात्रं गृहीत्वा आगता । सर्वे जलम् अपिबन् । ततः सर्वे एव निम्बवृक्षस्य अधः शय्यायाम् उपाविशन् । सर्वैः भोजनं सिद्धं करणीयम्। इत्येतत् श्रुत्वा सर्वेषां मनः प्रसन्नम् अभवत् । रत्नावल्या पिष्ट - द्विदलादीनां व्यवस्था कृता । भोजनं सिद्धीकरणं समारब्धम् ।
एषा वार्ता सम्पूर्णग्रामे प्रसृता जाता । ग्रामस्थाः एकत्रिताः अभवन् । यः कोऽपि आगच्छति सः एव तेषां साधुमहात्मनां सेवायां रतः भवति स्म ।
साधुसताम् अनेन प्रकारेण गमनागमनं समारब्धम् आसीत् रत्नामातुः आश्रमे । हरकोमहोदयायाः कार्ये व्यस्तता अभिवृद्धा अभवत् । चित्रकूटतः प्रयागं प्रति गमनागमनम् अनेन घट्टमाध्यमेन एव भवितुम् अर्हति स्म । तथा रत्नामातुः दर्शनं कुर्वन्तः जनाः गमनागमनम् अकुर्वन् । ग्रामस्थाः जनाः साधुसतां सेवायाः कृते रत्नामातुः आश्रमे व्यवस्थां स्थापयन्ति स्म । रत्नामातुः अपि जीवननिर्वहणं तस्यां व्यवस्थायामेव प्राचलत् ।
इतः रामचरितमानसस्य रचनायाः ख्यातिः सर्वत्र प्रासरत् । यः कोऽपि ततः प्रस्थितः भवेत् तदा सः रामचरितमानसस्य अवश्यं प्रशंसां करोति स्म । एकस्मिन् दिने रामाबन्धुः रत्नामातुः गृहम् आगतवान् । रत्नावली वलीके एव स्थिता आसीत् । हरकोमहोदया अपि तत्र उपविष्टा आसीत् । रामाबन्धुं दृष्ट्वा हरकोमहोदयया पीठं स्थापितम् । सः तत्र उपविशन् अवदत् - ‘‘जयतु सीतारामः भ्रातृजाये ।’’
‘‘जयतु सीतारामः’’
इतिकथनानन्तरं रत्नावली अपृच्छत् - ‘‘कथयतु बन्धो, अद्य अत्र विस्मरणेन कथम् आगमनम् अभवत् ? बहुदिनान्तरम् आगमनं जातम् ।’’
एतदाकर्ण्य सः अवदत् - ‘‘एवमेव सहजरूपेण आगतः अस्मि । अद्य साधूनां समाजः प्रस्थितः आसीत्, तैः सह वार्ता सम्पन्ना । ते काशीतः समागच्छन्तः आसन्’’ ।
ते वदन्ति स्म - ‘अवधीभाषायां रामचरितमानसस्य रचना’ इयं प्रथमा एव घटना अस्ति।
पुनश्च ते अवदन् - अत्र सर्वग्रन्थानां रसः विद्यते ।’
एतदाकर्ण्य सा अभणत् - ‘‘एतत् श्रुत्वा मनः आनन्देन परिपूर्णं भवति । एतत्सर्वं श्रीरामस्य कृपा एव वर्तते।’’
रामाबन्धुः पुनरपि अग्रे अवदत् - ‘‘केचित् जनाः हनुमतः मन्दिरे कथनं कुर्वन्ति स्म - तत्र द्वौ पक्षौ जातौ स्तः । केचित् रामचरितमानसस्य विरोधं कुर्वन्ति । केचित् च तस्य प्रशंसां कुर्वाणाः सन्ति ।’’
एतत् श्रुत्वा तस्याः मुखात् विनिःसृतम् - ‘‘यस्य उपरि श्रीरामस्य कृपा अस्ति तस्य संसारिजनाः किं विघट्टितं कर्तुं शक्नुवन्ति ?’’
‘‘भवती उचितमेव कथयति भ्रातृजाये । एतत्कथनार्थमेव आगतवान् आसम् । साधु, राम राम । अधुना चलामि ।’’ एतत्कथयित्वा रामाबन्धुः विनिर्गतः । हरकोमहोदया अपि केनापि आछूता कृता । सा अपि निर्गता रत्नावली अधुना एकाकिनी स्थिता जाता । सा ततः उत्थिता अन्तर्भागे पूजागृहे सा प्राप्ता । गृहे गोस्वामिद्वारा आनीता रामजानकीमूर्तिः आसीत् । सा तस्याः पुरतः गत्वा उपाविशत् । रामनाभजनं कुर्वाणा स्थिता । ततश्च तद् अस्थगत् सा । किमपि गुनगुनायमानं मनः सिद्धं कर्तुं तया समारब्धम् । शब्दाः निःसृताः -
रामं भजामि रामं भजामि,
पश्यामि त्वां तत्रैव स्वामि !
ननु त्वरित् तदागच्छति भवान्,
सर्वत्र तदा पश्यामि त्वाम् ।
गेहे दर्शनं तवैव त्वस्ति,
सन्तापः विगलति, शमं भवति ।
युगदृष्टा इव त्वागच्छति भवान्,
हिन्दीभाषां सुवर्धयति भवान् ।
भावुकमनसाऽहं त्वति सरला,
पश्यामि त्वां प्रणमामि मुदा ।
रामस्तु प्राणिनां मनस्स्वस्ति,
हे स्वामि ! भवान् नु तत्र वसति ।
(‘‘रामस्याहं करोमि भजनम् आयान्ति सम्मुखे भवन्तः। यत्र रामदर्शनम् ।। गृहवस्तूनि सर्वाणि भवत्प्रतिबिम्बमयानि । दर्पणो भूत्वा भवन्तो मह्यं कथ्यमाना भवन्ति ।। यावज्जीवनं मम पाश्र्ववर्तनानि ज्वलन्ति । ताप निवारणार्थं रामभजनगानं भवति ।। सर्वजनभाषा भवतु समृद्धा हिन्दी । युगद्रष्टारो भवन्तो मानसे गानं कुर्वन्ति ।। भावुकाहं भूत्वा जातास्मि विश्रव्या । वसति रामो हृदये यत्र भवन्तो वसन्ति तत्र ।)
बहुकालं यावत् रत्नावली गीतपदानि पुनः पुनः गायन्ती स्थिता । मनसि प्रश्नः उत्पन्नः - इदानीं ननु तस्य महाकाव्यस्य दर्शनं भवतु । मम पठनार्थं प्राप्तं भवतु । कथं सम्भवेत् एतत् ? मदर्थं नु तस्य ग्रन्थस्य दर्शनमेव पर्याप्तं भवेत् । हे राम, भवता मह्यं ग्रन्थस्य दर्शनमेव कारयतु। भवितुम् अर्हति यत् मम विषये तस्मिन् ग्रन्थे किमपि लिखितं स्यात् । एतत् तु पठनानन्तरम् एव ज्ञातुं शक्यते ।
मनः प्रतिक्षणं रामचरितमानसस्य दर्शनार्थं समुत्सुकमेव स्थितं भवति । तथा ज्ञानमपि नास्ति यत् ‘‘महाराजाः कुत्र सन्ति ?’’ एतदेव चिन्तयन्त्याः तस्याः पूर्णं दिनं व्यतीतं भवति स्म । रात्रिः अपि स्वामि चरणसंस्मरणेन एव प्रारभ्यते स्म तथैव च सा समाप्यते स्म ।
एकदिनस्य अयं प्रसङ्गः । दिनम् अस्तं गतम् । दीपवर्तिकादिभ्यः निवृत्ता भूत्वा रत्नावली नित्यक्रमवदेव पूजायाम् उपवेशनस्य सिद्धतां कुर्वती स्थिता आसीत् । तस्मिन्नेव समये रामबन्धुः रत्नायाः गृहम् आगतवान् । आगनान्ते एव अकथयत् - ‘‘राम राम भ्रातृजाये ।’’
रत्नया उत्तरं दत्तम् - ‘‘राम राम भ्रातः ! ...भ्रातः ! एतस्मिन् समये कथम् आगमनम् अभवत् ?’’
एतत् श्रुत्वा आनन्दसागरे निमज्जन् सः अवदत् - ‘‘भ्रातृजाये, हनुमतः मन्दिरे गोस्वामिवर्याः समागताः सन्ति । चित्रकूटतः प्रयागे भूत्वा काशीं गच्छन्तः वर्तन्ते ।
रत्नावल्याः मुखात् शब्दाः विनिर्गिताः ‘‘एवं वा ।’’
रामाबन्धुना कथनम् अग्रे प्रस्तौतम् - ‘‘पूर्णः ग्रामः एकत्रितः जातः अस्ति । तैः सह अष्ट - दश - साधुमहात्मनः वर्तन्ते ।’’
तावत् त्रिचतुर्जनानां संघः रत्नामात्रे सूचनाः दातुं प्राप्तः । रामाबन्धुः कथयन्नेव विद्यते स्म ‘‘भ्रातृजाये, गोस्वामिवर्याणां कथनं अस्ति । ते अद्य भोजनग्रहणं भवत्याः गृहे एव करिष्यन्ति । ते उक्तवन्तः अपि आसन् यत् भवत्याः भोजनग्रहणं करिष्यामि इति वचनं चित्रकूटे अस्माभिः दत्तम् आसीत् । साम्प्रतं, भ्रातृजाये, भवत्या तथा भोजनव्यवस्था कर्तव्या ।’’
एतत् श्रुत्वा सा चिन्तयत् यत् ते अस्मिन् द्वारे पुनः उपस्थास्यन्ति इति अहं कदापि न ऊहितवती - अद्य स्वामिचरणानाम् ममोपरि एतावती कृपा अस्ति । नहि, नहि ते बुद्ध इव सन्तपरम्परां निर्वोढुं समागताः ।
हरकोमहोदया पाश्र्वे एव स्थिता आसीत् । रामाबन्धोः कथनं श्रुत्वा, रत्नावल्याः किंकर्तव्यविमूढतां ज्ञात्वा सा अवदत् - ‘‘भ्रातृजाये, भवत्या अधुना गतिः शीघ्रा कर्तव्या, अष्ट - दशसाधुमहात्मनां भोजनं सिद्धं करणीयं भवेत् । मया इन्धनमिति काष्ठानि आनीयन्ते । भवत्या तेवनम् पचनार्थं पात्रं स्थापनीयं चुल्लिकायाम् । शीघ्रतया क्रियताम्।’’
सुदीर्घकालान्तरेण उभयोः स्फूर्तिः प्रास्फुरत् । गृहे घृतं नासीत् । हरकोमहोदया रामबन्धुम् अवदत् - ‘‘भ्रातः, गृहे नास्ति घृतम् । भवत्या व्यवस्था करणीया । यदि शक्यं चेत् सुम्मेराबन्धुतः वृन्ताकानि आनाययितव्यानि ।’’
एतावता कथनमात्रेण एव रामाबन्धोः पाश्र्वे स्थिताः जनाः एतानि वस्तूनि आनेतुं सिद्धतां प्रदर्शितवन्तः, ततः किं किं वस्तु केन केन आनेयमिति उत्तरदायित्वं स्वीकृत्य ततः चलामि । रात्रौै भोजनग्रहणसमये तान् मया सहैव आनयामि अत्र ।’’ एतत् कथयित्वा सः प्रस्थितवान् । इदानीं रत्नावली तेषां पुरतः गत्वा भोजनपरिवेषणार्थं मनोबलं सिद्धं कुर्वाणा अभवत् ।
महत्सावधानतया तया भोजनं सिद्धं कृतम् । तथापि मनसि शंका समुद्भूता जाता । भोजनं कथं सिद्धं, सम्यक् अस्ति वा न वा ? एतत् चिन्तयित्वा सा अपृच्छत् - ‘‘हरकोमहोदये, भोजनं सिद्धं कथं जातम् ?’’
हरकोमहोदया उत्तरं दत्तवती - ‘‘भ्रातृजाये, महत्या आत्मीयतया भोजनं सिद्धं कृतं वर्तते भवत्या । स्वादिष्टमेव जातं स्यात् । ते साधुमहात्मनः वर्तन्ते । भवत्या चिन्ता न कार्या । तेषां रामाय यथार्थप्रीत्या उच्छिष्टानि बदरीफलानि अददात् शबरी । तानि अपि रामेण स्वादिष्टतया भक्षितानि आसन् ।’’
एवं श्रुत्वा रत्नावल्याः मनसि साहसम् आगतम् आसीत् । तया ज्ञायते स्म यत् ते किं भोजनं करिष्यन्ति । तथा नु विविध - प्रकारकभोजनेषु तेषां रुचिः आसीत् तत्रापि किं भोजनम् अधिकं रुचिकरं भवति इत्यपि नहि विस्मृतमासीत् तया । रात्रौ भोजनसमयः जातः । गणपतिमाता पार्वती अपि सहायतार्थं तया समाहूता आसीत् । भोजनगृहे एव भोजनग्रहणस्य प्रबन्धः कृतः अविद्यत ।
यदा ते भोजनार्थं आगताः तदा एव रामाबन्धुना अग्रे भूत्वा तेषाम् आगमनस्य सूचना रत्नावल्यै दत्ता । तैः अतिथिवदेव गृहे प्रवेशः कृतः । भोजनं सिद्धमेव आसीत् । द्वारे एव स्वामिचरणानाम् आदरातिथ्यार्थं रत्नावली स्थिता जाता आसीत् । तया तेषां चरणस्पर्शः कृतः । तदैव शब्दाः निःसृताः ‘‘सुखेन तिष्ठन्तु ।’’ ततः सा झटिति अग्रे अग्रे पथप्रदर्शनार्थं प्राचलत् । सर्वे साधुसन्तः तैः सहैव आसन् । भोजनार्थं प्रस्तरणं मण्डितम् आसीत् । ते सर्वे क्रमानुसारेण उपविष्टाः तत्र । स्थालीनां मण्डनं सुसपन्नम् । भोजनपरिवेषणं रत्नावल्या एव कृतम् रोटिकानां धूपायनं उष्णीकरणं चेतिकार्यं गणपतिमात्रा पार्वत्या कृतम् । गणपतिमाता अपि पर्यवेषणे सहायतार्थम् आगतवती । यदा कदा पर्यवेषणम् आग्रहेण रत्नावल्या कृतं तदा तस्याः सः आग्रहः तैः असम्मतः नैव कृतः । रत्नावली विस्मृता आसीत् यत् तया अतिथिभ्यः भोजनसमर्पणं क्रियते। कदापि किमपि परिवेषणार्थम् आनयति, व्यजनं धुनोति स्म । कदाचित् धावन्ती जलम् आनयति स्म सा । एवम् आतृप्तिं पूर्णोदरं भोजनम् अभवत् । यदा सर्वैः हस्तप्रक्षालनादिकं भोजनान्ताचमनं समारब्धं तदा रत्नावल्या सर्वेभ्यः साधुसद्भ्यः दक्षिणाप्रदानमपि कृतम् । परन्तु अन्ते स्वामिचरणानां समीपम् आगत्य सा अतिष्ठत् । यतः तेभ्यः दक्षिणाप्रदानं कथं करणीयमिति प्रश्नः तस्याः मनसि । पुनश्च अन्यः अपि प्रश्नः - न जाने इदानीं कदा पुजरागमनं भवेत् वा न भवेत्? अनेन ब्याजेन एकवारं चरणस्पर्शं करोमि एव । तथा तया तेषां हस्ते मुद्रा स्थापिता । तेऽपि मौनेन एव स्थिताः । केनापि प्रकारेण रत्नायाः मनः ते दुःखितं कर्तुम् नेच्छन्ति स्म । यदा तया तेषां चरणयोः शिरः नामितः तदा तस्याः हिक्का प्रास्फुटत् । नेत्रयोः अश्रूणि चरणयोः पतितानि । तैः प्रेममर्यादा ज्ञाता, उक्तं च - रत्नामहोदयाः, उत्तिष्ठन्तु, साहसं रक्षन्तु, श्रीरामस्य भजनं कुर्वन्तु, अत्रैव भवतीनां कल्याणं वर्तते ।’’
एतत् श्रुत्वा रत्नावली सचेतना जाता । सा उदतिष्ठत् । तया स्वाश्रूणि परिमार्जितानि । अतिथीनां गमनाय अनुज्ञादानार्थं तेषां पृष्ठे सा अभवत् । गोस्वामिवर्याः गृहात् बहिः आगताः । ध्वनिः श्रवणपथम् आगता ‘‘स्वामिचरणाः, अधुना पुनर्दर्शनं कदा भविष्यति ?’’
एकक्षणं यावत् किमपि न कथितं स्वामिचरणैः ततश्च उक्तम् - ‘‘रामचरितमानसस्य प्रतिलिपिनिर्माणकार्यं टोडरमहोदयाः कुर्वाणाः सन्ति । भवतीं प्रति प्रतिलिपिः प्रेषिता भविष्यति।’’ एतत् कथयित्वा ते विनिर्गताः ।
रत्नावली बद्वांजलिः भूत्वा अतिष्ठत् । सर्वे एव जनाः निर्गताः आसन् । द्वितीये दिने ग्रामस्थाः जनाः तेभ्यः अनुज्ञादानार्थं घट्टपर्यन्तं गताः आसन् यदा नौका महेवा घट्टे प्राप्ता आसीत्। ततः एव जनाः एतस्मात् घट्टात् प्रतिनिवृत्ताः । ततः जनाः चलन्तः रत्नामातुः गृहमागताः । रत्नामाता द्वारे एव स्थिता आसीत् । जनेषु गोस्वामिविषये चर्चा प्राचलत् । कोऽपि कथयति स्म - ‘‘रत्नामातुः कारणादेव गोस्वामिनां दर्शनम् अस्माभिः लब्धम्, अन्यथा ते अत्र किमर्थम् आगमिष्यन् ?’’
केनापि कथितम् - ‘‘बन्धो, राजापुरविषये तेषां बहुप्रीतिः अस्ति । मन्दिरे रात्रौ सर्वेषां सुखदुःखादि विषये तैः विचारणा कृता ।’’
तृतीयेन कथितम् - ‘‘अस्माकं गुरुवर्याः भवतः नूतनशिष्याणां पठन - पाठनविषये विचारणाम् अकुर्वन् । कथयन्ति स्म - भवतां माता अतिकल्याणकरं कार्यं करोति ।’’
एतत् श्रुत्वा रत्नावली आनन्दविभृता अभवत् । केनचित् दीर्घकालान्तरेण सर्वे जनाः रत्नामातुः भाग्यस्य प्रशंसां कुर्वन्तः निर्गताः आसन् ।
- - - - - - - - -