ratnavali -14 sanskritanuvadak pan.gulaam dastageer in Hindi Classic Stories by रामगोपाल तिवारी books and stories PDF | रत्नावली-14 संस्कृतानुवादकः पं. गुलामदस्तगीरः

Featured Books
Categories
Share

रत्नावली-14 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-14 संस्कृतानुवादकः पं. गुलामदस्तगीरः

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली - 14

होलिका पावनपर्व भवति तदा तस्मिन् पर्वणि वयं स्वयं होलिकायां लिप्ताः न भवामः, तथापि येन केन प्रकारेण वर्णच्छटाः अस्माकम् उपरि पतनेन विना न तिष्ठन्ति ।

एवं चिन्तयन्ती हरकोमहोदया स्वपतिविषये विवदमाना भूत्वा रत्नावलिम् अवदत् - भ्रातृजाये, तत् पश्यतु, अद्य सः मम पतिः मम मार्गे व्यवधानं कृत्वा अवस्थितः जातः, अकथयत् च - गरिष्ठे, अधुना लघिष्ठया मम मनः भृतं जातं वर्तते, ततः भवती एवं करोतु, या लघिष्ठा अस्ति सा गुरुपत्नीं प्रति प्रेषिता भवतु, भवती पुनः गृहम् आगत्य निवासं करोतु । तया एव भवतीम् उद्दिश्य यत्किमपि माम् उक्त्वा भवत्याः विरुद्धे मम कर्णपूर्तिः कृता, अतः मया भवती गृहात् निष्कासिता कृता । इदानीं सा प्रतिक्षणं मया सह कलहं करोति । भ्रातृजाये, मया तं स्पष्टतया उक्तम्- ‘‘अधुना अहं तव कथने न आगच्छामि । अहं कदापि तत्र नागमिष्यामि ।’’

रत्नावली हास्यभावम् आनयन्ती उक्तवती - ‘‘एकवारं तस्य कथनं मत्वा अनुभवं गृह्णातु।’’

हरकोमहोदया कर्णौ पिधानं कृत्वा अवदत् - ‘‘सर्वं जीवनं भवत्याः द्वारे पतित्वा विनिर्गतम्। केशाः श्वेताः भूयमानाः जाताः सन्ति । एकदा संसारात् बहिः निर्गत्य आगता अस्मि । अधुना तत्र दृष्टिपातं कृत्वा अपि पश्यन्ती न भवामि ।’’

एतस्मिन् सम्बन्धे किमपि वक्तुम् उचितं न मतं रत्नावल्या ।

द्वितीये दिने हरकोमहोदयायाः सपत्नी हरकोमहोदयायाः समीपम् आगतवती । तस्याः अवगुण्ठने पटखण्डाः संलग्नाः आसन् । दृश्यभावेन बहुदुर्बला जाता आसीत् । अत्र आगमनात्परम् एव रत्नामातुः चरणस्पर्शं कृत्वा अवदत्- ‘प्रणामः मातः ! ’ एतत् दृष्ट्वा श्रुत्वा च रत्नावली सहजतया एव अवदत् - ‘सौभाग्यवती भव’ इति ।

सा अभणत् - ‘‘मातः, गरिष्ठावदेव मामपि भवती शरणे गृह्णातु ।’’

अनेन रत्नावली सर्वमपि ज्ञातवती । दुर्गा अत्र कदापि नागता आसीत् इतः पूर्वम् । ध्वनिं श्रुत्वा हरकोमहोदया वलीके आगता । हरकोमहोदयां दृष्ट्वा एव दुर्गा अवदत् - गरिष्ठे ‘राम राम’ एतत् सम्मानजनकं ‘राम राम’ इति कथनं श्रुत्वा सा अमन्यत - ‘‘कियतीम् उत्तमां पद्धतिम् अनुसृत्य एषा कथयति ?’’

हरकोमहोदयायाः मुखात् विनिर्गतम् ‘राम राम’ इति । ततः पृष्टवती - ‘कथयतु लघिष्ठे, भवत्याः आगमनम् अत्र कथम् अभवत् ?’’

एतदाकर्ण्य सा अभणत् - वयसः अवरोहणं चलति । सः वराकः धोती इति वस्त्रविशेष धारी पण्डितस्य श्रेष्ठः शिष्यः जातः अस्ति । तत्र प्रतिदिनं गमनागमनं करोति प्रत्यागमनसमये गंजां मृन्नलिकया पीत्वा आगच्छति । सुष्ठुतया सिद्धं भोजनं मां याचते । कमपि आयं न सम्पादयति, न च किमपि करोति। यथाशक्यं रक्षाबन्धनसूत्राणां सिद्धीकरण - कार्यं मया एव क्रियते । अनेन माध्यमेन कश्चित् आयः भवति । सः रिक्ततया एव जीवति । पुनश्च सुष्ठुतया सिद्धं कृतं भोजनं सः इच्छति । यदि काचन न्यूनता तत्र स्यात् तर्हि ताडनं तुम्पनं च अविरलतया करोति सः ।

ह्यः आरभ्य कथयति यत् - ‘‘गरिष्ठा गृहम् आगत्य निवासार्थं सिद्धा अस्ति । अधुना भवती पलायनं करोतु इतः । कथयतु गरिष्ठे, अहं कुत्र गच्छामि ?’’

एतत् कथयित्वा सा फुसुक् - फुसुक् - कुर्वाणा अरोदीत् । हरकोमहोदया तां शामयित्वा अवदत् - ‘‘लघिष्ठे शान्ता तिष्ठतु, शान्ता तिष्ठतु । ते न, मम भवत्याः च पूर्वजन्मसंस्काराः सन्ति यत् एतस्य चक्रे आवां पतिते जाते स्तः । अवशिष्टम् अस्ति यत् अधुना मम तस्य गृहगमनं, तन्नु लघिष्ठे, भवती तस्मै कथयतु । मम केशाः श्वेताः भवन्ति । दशरथः स्वकेशं दृष्ट्वा रामस्य राजतिलकं कर्तुम् ऐच्छत् । अहं तत्र अवरूढावस्थायां प्राप्य किं करिष्यामि।’’

रत्नामाता किमपि वक्तुम् इच्छति स्म, परन्तु प्रथमं हरकोमहोदयया निर्णयः एव श्रावितः आसीत् । अधुना लघिष्ठायाः कथनश्रवणम् अवशिष्टम् आसीत् । अतः रत्नामाता लघिष्ठाम् अभिमुखी जाता । लघिष्ठा एतत् सूचनं मत्वा अवदत् - ‘‘अहमपि तेन सह स्थातुं नैव शक्नोमि।’’

एतत् विचिन्त्य रत्नावली विवृता - ‘‘पश्यतु लघिष्ठे, हरकोमहोदयायाः विषयः भिन्नः अस्ति । तस्यै शरणं दत्तं विद्यते गुरुवर्यैः एव । भवत्या ननु स्वपत्या सहैव स्थातव्यं भवेदित्येव भवत्याः कृते अवशिष्टं विद्यते । तस्मिन् पत्यौ याः काः अपि न्यूनताः स्युः ताः सर्वाः भवत्या एव निष्कासनीयाः आसन् । जीवनं यावत् भवत्या तथा नैव कृतम् । अरे, प्रीत्या पाषाणः अपि विदीर्णः भवति । यदि भवत्या एवं न क्रियते तदा ननु हरकोमहोदयया समाने यः सम्मानः प्राप्तः अस्ति सः पूर्णतया धूलिसात् भवेत् ।’’

दुर्गा अवदत् - ‘‘मातः, अहं जानामि तत्सर्वम् । पूर्णे ग्रामे भवत्याः कारणात् गरिष्ठया यः सम्मानः प्राप्तः अस्ति तथा सुप्रतिष्ठितजनैः अपि न प्राप्तः वर्तते । पुनश्च गरिष्ठा पंचायत पर्यन्तमपि निरूपणं करोति ।’’

रत्नावली तत्कथनं वर्धनार्थं अवदत् - ‘‘दुर्गे, अहं तु कुत्रापि गमनागमनं न करोमि । या कापि समस्या आगच्छति तथा तत्सर्वं हरकोमहोदया विचारयति । पूर्णे ग्रामे सेवाकार्यं कुर्वाणा तिष्ठति । एतादृशीम् एनां तस्मिन् पङ्के गमनार्थं वदामि तदापि एषा तत्र गन्तुं नैव इच्छेत् । ज्ञातवती वा ?’’

दुर्गा अभणत् - ‘‘मातः, मया अपि ज्ञातं तत् ।

रत्नावली पुनः अवदत् - ‘‘हरकोमहोदये, गृहान्तर्भागे मम लहंगा इति आपादकटिवसनं, स्थापितं वर्तते । अहं तन्न परिदधामि । अस्यै दुगायै तद् ददातु ।’’

एतत् श्रुत्वा हरकोमहोदया अवदत् - आम्, तन्नु गुरुवर्याणां स्मरणरूपेण विद्यते । तैः एव ननु तत् कारितम् आसीत् ।

एतदाकर्ण्य रत्नावली अगदत् - ‘‘अस्यै दीयताम् ।

एतद् उक्त्वा सा अचिन्तयत् - ‘‘अहं मिथकस्मृतिभिः जीवितुं न शक्नोमि । अहं तु यथार्थस्य धरातले एव जीवितुम् इच्छामि ।’’

सा अन्तर्भागम् अगच्छत् । तत् आपादकटिवसनं प्राचारकं तया आनीतम् । सा चिन्तयति स्म - अहं बहुदिनेभ्यः एव चिन्तयामि स्म यत् भ्रातृजाया कस्मिन्नपि दिने एतत् परिधानं मह्यं दास्यति, परन्तु एतत् लघिष्ठा गृहीत्वा नयति । लघिष्ठायाः उपरि अधुना श्रीरामस्य पूर्णकृपा जाता विद्यते । लघिष्ठायै आपादकटिवसनं ददाना हरकोमहोदया जाता वर्तते इति जानातु । तत् वसनं गृहाणा सा अवदत् - ‘‘गरिष्ठे, एषा ननु भवत्याः मातुः कृपा अस्ति ।’’

इदानीं सा उभे प्रणामं कृत्वा प्राचलत् । तस्याः गमनानन्तरं हरकोमहोदयायाः मुखाकृत्यां विजयस्य हास्यं व्यलसत् ।

रत्नामाता तस्याः गमनानन्तरं विश्रामार्थं पर्यङ्के अतिष्ठत् । एतद् दृष्ट्वा हरकोमहोदया चरणपरिमर्दनाय तस्याः पाश्र्वे उपाविशत् । तस्याः चरणयोः सा स्वहस्तौ स्थापितवती । एतद् दृष्ट्वा रत्नामाता अवदत् - ‘‘भ्रातृजाये, मास्तु । नित्यम् एतेन प्रकृतिः दूषिता भविष्यति ।’’

रत्नायां निवारणे सति अपि हरकोमहोदया चरणमर्दनं कुर्वाणा अवदत् - भवती एवम् उक्त्वा एव सर्वदा मां सेवाकार्यात् निवारयति ।

एतस्मिन् विषये रत्नावली अवदत् - ‘‘दुःखकष्टविषयः भिन्नः भवति । सामान्यतया मनुष्येण स्वशीलनं विघट्टितं नैव करणीयम् ।’’

तस्याः विरोधं श्रुत्वा अपि हरकोमहोदया तस्याः चरणयोः संवहनं मन्दं कुर्वाणा उपाविशत्।

मनुष्यः मित्रैः सह सम्भाष्य, ज्येष्ठानां पुरतः स्वपीडां प्रकटीकृत्य वा यथा कथंचिदपि युवावस्थां तु व्यतीतं करोति, किन्तु यदा वृद्धावस्थायाः आगमनस्य बोधः भवति तदैव सः चिन्तितः भवति । वृद्धावस्था सहजतया निर्गच्छेत् एतदर्थं जनाः श्रमेण धनार्जनं कृत्वा रक्षन्ति। वृद्वावस्थायां स्वसेवायाः निमित्तम् एव जनाः सन्ततिं योग्यां कर्तुं प्रयत्नं कुर्वन्ति । यदि सन्ततिः न भवति तर्हि आश्रयस्य अन्वेषणे मनः यत्र कुत्रापि भ्रमति । मातेश्वरी रत्नावली पत्युः गमनानन्तरम् एतस्मिन् एव चिन्तने निरता भवति स्म ।

अद्य हरकोमहोदया रत्नावली च परस्परं पुरतः एव उपविष्टे आस्ताम् । रत्नावली कस्यचित् पुस्तकस्य पृष्ठान् उद्घाटयन्ती आसीत् । हरकोमहोदया तस्याः सुन्दरकेशान् पश्यन्ती आसीत् । तस्मिन्नेव समये हरकोमहोदयया रत्नावल्याः शिरसि केचन श्वेतकेशाः दृष्टाः । रत्नावलिं श्वेतकेशानां संकेतं दातुं हरकोमहोदयया स्वकत्र्तव्यं चिन्तितम् । सा आनन्दिता भूत्वा उक्तवती - ‘‘भ्रातृजाये ! सम्प्रति तु केशाः श्वेताः जायमानाः सन्ति, मन्ये जीवनं व्यतीतं जातम्।’’

रत्नावली पुस्तकात् स्वचित्तं पृथक्कृत्य हरकोमहोदयां प्रति कृतवती । मुखात् ध्वन्याः निर्गतेन विना एव हरकोमहोदया अवगता यत् रत्नावल्याः आगामिप्रश्नः जातः । सा चिन्तयित्वा अवदत् यत् - ‘‘भ्रातृजाये ! अद्य भवत्याः शिरसि श्वेतकेशाः दृष्टाः ।’’

तत् श्रुत्वा रत्नावल्या सर्वम् अवगतम्, उक्तं च - ‘‘त्वं सत्यं वदसि, एषा युवावस्था एव कठिना भवति । परित्यक्ताभ्यः कृते तु इतोऽपि दुष्करा भवति किन्तु मया तथा न अनुभूतम् । त्वादृशीभिः सखिभिः सह निर्गता मे युवावस्था, किन्तु कठिना तु एषा वृद्धावस्था भविष्यति, चिन्तयिष्यामः, इदानीं तु कांचित् व्यवस्थां कर्तुं शक्नुमः ।’’

तदा एव शिष्यः गणपतिः तत्र आगतः, तं दृष्ट्वा प्रसंगं परिवर्तयन्ती रत्नावली अवदत् - ‘‘अरे, गणपते ! एकप्रहरं दिनं व्यतीतम् इदानीं पर्यन्तं छात्राः पठनार्थं न आगताः ।’’

गणपतिः उत्तरं दत्तवान् - ‘आगच्छन्तः स्युः’ इति । तदैव अन्ये छात्राः अपि आगताः । तान् दृष्ट्वा ते बहिः आगताः ।

द्वितीयदिने सायंकाले हरकोमहोदया वेगेन आगत्य एव अवदत् - ‘‘भ्रातृजायेऽऽऽ ! भ्रातृजायेऽऽऽ !’’

रत्नावली पृष्टवती - ‘‘किम् अस्ति ? अद्य बहुप्रसन्ना दृश्यते ।’’

हरकोमहोदया सोत्साहम् अवदत् -‘‘अद्य केचन साधु - महात्मनः हनुमत्मन्दिरम् आगताः, ते वदन्ति यत् गोस्वामिचरणाः सम्प्रति अयोध्यायां अवस्थिताः सन्ति ।’’

रत्नावली अवदत् -‘‘अयोध्या तु तेषां प्रभोः धाम अस्ति । तेषां कृते एतदपेक्षया उत्तमं स्थानम् अन्यत् किं भवितुम् अर्हति ।’’

तदा एव रामाबन्धुः अपि एताम् एव सूचनां दातुं समागतः । आगत्य एव अवदत् - ‘जयतु सीताराम ।’’

उत्तरं प्राप्तम् ‘‘जयतु सीताराम भ्रातः ! अद्य एतस्मिन् समये भवान् अत्र कथं विस्मृतवान्।’’

प्रश्नं श्रुत्वा रामाबन्धुः उक्तवान् - ‘‘अद्य अयोध्यातः समागताः तेऽपि तथा च अयोध्यां प्रति गन्तुकामाः द्विधा एव साधवः हनुमत्मन्दिरे स्थगिताः सन्ति, यदि सूचना प्रेषणीया तर्हि प्रेषयितुं शक्यते ।’’

रत्नावली आनन्दसागरे निमज्जनं कुर्वती उक्तवती - ‘‘बन्धो ! मया एका दोहा लिखित्वा स्थापिता अस्ति, यदि भवतः हरकोमहोदयायाः च अनुमतिः स्यात् तर्हि ताम् एव तत्र प्रेषयितुम् इच्छामि ।’’

हरकोमहोदया रामाबन्धुः च उभौ एव संयुक्तस्वरेण उक्तवन्तौ - ‘‘आम्, आम्, अवश्यमेव प्रेषणीया । उभयोः जिह्ना पृष्टुं न अशक्नोत्, यत् तस्यां दोहायां तादृशं किम् लिखितम् अस्ति यत् रत्नामाता गुरुवर्यान् प्रति प्रेषयितुम् इच्छति ।’’

तयोः भावभंगिमाम् अवगम्य अपृष्ट्वा एव रत्नावली हस्तलिखितपुस्तकात् निष्कास्य तत् कागदखण्डं उभाभ्यां यच्छन्ती उक्तवती - ‘‘भवन्तौ एव पठताम् ।’’

कागदखण्डं स्वीकृत्य रामाबन्धुना उच्चैः पठनम् आरब्धम् -

‘‘कटि की छीनी कनकसी, रहति सखिन्ह संग सोय ।

और कटे को डर नहीं, अन्त कटे डर होय ।।’’

हरको अवगतवती यत् मया श्वेतकेशानां यः संकेतः दत्तः आसीत् एषा दोहा तस्य एव परिणामः अस्ति । एवं चिन्तयित्वा सा उक्तवती - ‘‘साधु, साधु ! भ्रातृजाये एतस्यां दोहायां भवत्या किं न उक्तम् । कृशकटिसुन्दर्यः स्वसखिभिः सह युवावस्थां यापयन्ति । भ्रातृजाये ! गुरुचरणेषु गते सति अपि चिन्ता, भयः, पीडा इत्यादयः न विद्यन्ते । किन्तु वृद्धावस्थायां जीवनं कथं व्यतीतं भविष्यति एषः एव भयः अस्ति ।’’

एवम् उक्त्वा हरकोमहोदया रामाबन्धुं प्रति दृष्टवती । तद् दृष्ट्वा रामाबन्धुः अवगतः यत् सम्प्रति अस्मिन् विषये मया एव वक्तव्यम्, सः एतदेव चिन्तयित्वा अवदत् - ‘‘अवश्यमेव गुरुचरणैः एतस्य प्रश्नस्य उत्तरं दातव्यम् ।’’

रत्नावली उक्तवती - ‘मम अपि स्वाभाविकी चिन्ता एषा ।’

सम्प्रति किमपि रामाबन्धुना वक्तव्यम् आसीत् सः स्वस्य निर्णयं श्रावयितुम् अवदत् - ‘अद्यैव एतां दोहां तैः साधुभिः सह अयोध्यां प्रति प्रेषयामि । अस्तु गच्छामि । भ्रातृजाये ! जयतु - जयतु सीताराम ।’

रत्नावली तस्य गमनाय स्वीकृतिः प्रदत्ता - ‘जयतु - जयतु सीताराम ।’

रामाबन्धुः पत्रं नीत्वा निर्गतः । तस्मात् दिनात् रत्नावल्याः चित्तं पत्रेण सह भूत्वा मननं करोति यत् - न जाने तेषु पत्रस्य कः प्रभावः भविष्यति । ते एतस्य पत्रस्य किम् उत्तरं दास्यन्ति। सम्यक् एव आस्ति, एकस्याम् एव दोहायां भूत - वर्तमान - भविष्य - त्रयाणां कालानाम् आलेखः अस्ति । तेषां किम् उत्तरं भवितुम् अर्हति ? अहं तान् सम्यक् जाने । ते विद्वान्सः सन्ति, किमपि तादृशम् उत्तरं प्रेषयिष्यन्ति येन मया सहजतया एव सन्तोषः भविष्यति। एवम् अपि शक्यते यत् ते किमपि उत्तरम् एव न प्रेषयेयुः । मया सह तेषां किं प्रयोजनम् । मया पत्रं नैव प्रेषणीयम् आसीत् । यथा युवावस्था अतीता तथैव वृद्धावस्था अपि व्यतीता भविष्यति ।

एतस्मिन् एव चिन्तने दीर्घः कालः अतीतः । सम्प्रति तु उत्तरस्य प्रतीक्षा अपि समाप्तिं यावत् गच्छन्ती आसीत् ।

सोमवतीपर्व समागतम् । यमुनायाः घट्टे श्रद्वालूनां यात्रिकाणां संख्या वर्धिता । अद्य सहसा साधूनां एकः समूहः द्वारं समागतः । स्वभावेन रत्नावली तेषां यात्रावृत्तान्तं श्रोतुम् अलिन्दे उपविष्टा । तां दृष्ट्वा एकेन साधुना प्रश्नः कृतः - ‘भवती रत्नामाता अस्ति न ?’

स्वनाम श्रुत्वा रत्नावल्याः मनसि शंका उत्पपन्ना - ‘आम्, वदतु, अहम् एव अस्मि ।’

उत्तरं श्रुत्वा एकेन साधुना स्वपोट्टलिकातः एकं लघुकागदखण्डं निष्कास्य रत्नामात्रे दातुम् उद्युक्तम् निगदितम् - ‘वयम् अयोध्यातः समागताः गोस्वामितुलसीदासैः भवत्यै एतत् पत्रं प्रेषितम्।

रत्नावली परमानन्दस्य परमपदस्य अनुभूतिं कुर्वाणा उक्तवती - ‘अरे, दास्यां स्वामिवर्याणाम् ईदृशी कृपा’ हस्ताभ्यां पत्रं स्वीकृत्य औत्सुक्यात् तत्क्षणम् एव उद्घाटितम् । तस्मिन् अपि एका दोहा लिखिता आसीत् -

‘‘कटे एक रघुनाथ संग, बाँध जटा सिर केश ।

हम तो चाखें प्रेम रस, पत्नी के उपदेश ।।’’

पत्रं पठित्वा हृद्या संश्लिष्टम्, उक्तवती च मया उत्तरं प्राप्तम् । रघुनाथेन श्रीरामेण सह अवशिष्टं जीवनं यापयितुम् आदिष्टा अहम् । तदा औत्सुक्यात् साधून् प्रति पठितुं तत् पत्रं दत्तम्। सर्वैः तत् पत्रं पठितम् प्रशंसितम् च । ग्रामे यः कश्चित् अपि श्रुणोति सः आगच्छति स्म। स्वामिवर्याणां लेखनस्य स्पर्शं कृत्वा सर्वे आत्मानं धन्यं मन्यन्ते स्म, रत्नावली च अतीते सागरे निमज्जति ।

- - - - - - - - -