रत्नावली-12 संस्कृतानुवादकः पं. गुलामदस्तगीरः
लेखकः
रामगोपाल ‘भावुकः’
संस्कृतानुवादकः
पं. गुलामदस्तगीरः मुंबई
सम्पादकः
डा. विष्णुनारायण तिवारी
रत्नावली - 12
आस्थासु अनास्थासु च युगानुयुगे संघर्षः प्रचलन् समागच्छति । विजयश्रीः यदा कदा आस्थानां अनास्था जाता वर्तते । आस्थाहीन - मानवः जनैः परिभ्रान्तः इति मन्यते । सः यस्मिन् चिन्तने स्वम् आत्मासात् कुर्वन् तिष्ठति तस्य तस्मिन् आत्मविश्वासः पर्वतसदृशः अचलः अविचलः च स्थितः भवति । आस्थायुक्ततः भूतलस्य सर्वाणि तथ्यानि स्वतर्कानुभूतिमाध्यमेन क्षुरित्वा सः उत्क्षिपति । एतेषु सर्वेषु तथ्येषु तस्य किंचन किमपि दर्शनम् अवश्यंभावेन भवति । रामाबन्धुः सम्पूर्णरात्रौ एवमेव चिन्तयन् आसीत् ।
रात्रिं यावत् रत्नावली प्रतिक्षणम् एकमेव विचारं कुर्वती स्थिता यत् कस्य रामस्य द्विधाभावं दत्त्वा ते स्वस्मात् दूरस्थाः मया कृताः इति कथं ज्ञायते ? तेषां सः रामः अद्य कुत्र गतः ? कुत्रास्ति तस्य अस्तित्वम् ? भवन्तः यथेच्छं रामस्य भूत्वा तिष्ठन्तु । इदानीं मम विश्वासः कस्मिन् अपि रामे स्थिरः भवितुं न अर्हति । कति प्रार्थनाः मया कृताः आसन् मम प्रियतमपुत्रस्य रक्षणार्थम् ? कुत्रापि कश्चन रामः अभविष्यत् तदा मम एतादृशी दशा नैव अभविष्यत् । रामेण स्व - अस्तित्वस्य अधिष्ठानार्थं मम रक्षणीयः एव आसीत् । अद्य अहमेव किं नहि सम्पूर्णः संसारः भवतः अस्तित्वस्य विषये शंकां कर्तुम् उद्यतं भवेत् । कतिवारं भवतः नाम्नः ‘भभूत्’ (भस्म) इति विशेषम् अभिसन्धत्तम् आसीत् । परन्तु किमपि पुण्यं प्रतिबन्धरूपेण अग्रे न आगतम् । किम् अस्माकं पूर्वजनानां सर्वं पुण्यं क्षीणतां गतं वा ? यदि तथा न जातं तदा अद्य अयं वंशः अत्रैव समाप्तः न अभविष्यत् । कस्यापि वंशस्य समाप्तिः केनापि धर्मग्रन्थेन पुण्यप्रतापः अयम् इति नहि सम्मतः कृतः स्यात् ।
यदा दुर्दिनानि आगच्छन्ति तदा बुद्धि अपि तथैव परिवर्तिता भवति । मम अपि एतादृशी एव दुःस्थितिः अभवत् । रामे मम दृढविश्वासः कथम् आसीत् सः अनेन कारणेन एव चूर्णितः जातः । नूनम् एव कापि न्यूनता मम विश्वासे नासीत् । मया भवतः अस्तित्वे कदापि शंका नैव कृता । ततः एवं किमर्थं न कुतः ? अधुना भवति कः विश्वासं करिष्यति ? भवतः चरणयोः मनः स्थिरं तिष्ठतु इति ते आधाराः अपि भवता अपहृताः । संसारः अस्ति अतएव भवान्, अन्यथा भवतः अस्तित्वविषये कः चिन्तयति ? पशु - पक्षिणः भवतः अस्तित्चं नहि स्वीकुर्वन्ति । अतः तेषु सुखदुःखयोः छाया एतावती नास्ति । मया भवतः अस्तित्वं स्वीक्रियते, तथा किं सुखं मया लुण्ठ्यते ? ते विनिर्गताः । अहं सोढवती भवता इमं नीत्वा तृणसमानः मम आधारः स्ववेगेन प्रवाहितं कृत्वा अपनीतः । अद्य मया ज्ञातं यत् कुत्रापि कश्चन ईश्वरः परमेश्वरः वा न भवति । एषा सर्वा मानवस्य अन्तर्हिता शंका अस्ति । जन्म - जन्मान्तरेषु घटितानां संस्काराणां फलमेव वर्तते । यदा प्रभृति मनुष्यः प्रबोधनं स्वीकृतवान् तदा प्रभृति स्वविकासस्य पृष्ठभागे कस्याश्चिदपि अज्ञातायाः सत्तायाः अस्तित्वं अंगीकृतवान् । सः तां सत्तां चन्द्रे द्रष्टुम् ऐच्छत् । सूर्ये द्रष्टुम् अकाङ्क्षत् वृक्ष - अङ्कुर - जीव - जन्तुषु - अर्थात् सर्वचराचरेषु तस्य अस्तित्वं द्रष्टुं निमग्नः अभवत् सः । परन्तु प्रत्यक्षं वा परोक्षं वा कोऽपि परिणामः नैव प्राप्तः । घण्टानुघण्टां यावत् जपमालायाः जपनं निरर्थकमेव भाति । एतादृशीभिः सर्वाभिः क्रियाप्रक्रियाभिः कुत्रापि केनापि मानवेन काचित् शान्तिः प्राप्ता वर्तते वा ? उत्तरं भवेत् - नहि इति । ततः मया शान्तिः कुतः प्राप्येत् ?
अधुना जीवित्वा अपि अहं किं करिष्ये ? इदानीमेतत् पर्वतसदृशं जीवनं कथं व्यतीतं भवेत् ?
तारापतिः इत्यस्य संस्मरणे एषा पूर्णा रात्रिः विनिर्गता तथैव मम क्षेदनमपि प्राचलत् । कथमपि एकवारं नेत्रे न्यमीलयम् तदा एव रोदनं कुर्वन् तरापतिः मम पुरतः आगच्छत् इति भाति स्म ? ततः झटिति निद्राभंगः जातः । ततः पुनः वेदनाः मम पुरतः समुपस्थिताः । ततः हा हन्त इति दुःखपरिपूर्णाः उद्गााराः मम । रे हन्त ! प्रियपुत्र ! भवान् कुत्र गतवान् ? हरको महोदया एतत्सर्वं शृणोति स्म । सा तां भत्र्सयन्ती अवदत् - ‘‘कुत्रापि नहि गतः सः । रामं प्रति एव गतः वर्तते । भवती यदा तत्र प्राप्स्यति तदा सः तत्र मेलिष्यति ।’’
सा स्तब्धा जाता । पुनः तस्याः चिन्तनं समारब्धम् - सत्यतया एवं भवति किम् ? ततः पुनः मनोघटित - कथनानि एतानि कियत् विश्वासपूर्णतया कथ्यमानानि भवन्ति । सर्वमेतत् मनसः शंकास्थानं भवति । महामहन्तः अवताराः ज्ञाताः इत्यपि कः जानाति यथार्थतया ? अनेन शंकास्थानं भवति । महामहन्तः अवताराः जाताः इत्यपि कः जानाति यथार्थतया ? अनेन प्रकारेण एव मनोगुम्फिताः अवताराः स्युः । एवं किं नहि ? एकेन द्वितीयोपरि द्वितीयेन तृतीयोपरि इति सत्यासत्यतायाः आरोपणं क्रियमाणं प्राचलत् । मनस्सु किं किम्ं आरोपितं कृतं भवति इत्यपि न ज्ञायते ।
एतादृश - विचार - मग्नतायां प्रातःकालः जातः । हरकोमहोदया अभणत् - ‘‘नदीं चलतु भ्रातृजाये ! स्नान - प्रक्षालनादिकं कृत्वा प्रत्यागमिष्यावः । एतत् श्रुत्वा पुनरपि तस्याः हृदयद्रावणं समारब्धम् । पूर्वं यदा सा गच्छति स्म तदा तारापतिः तया सह भवति स्म । हरकोमहोदया हठादेव ताम् उत्थापितवती । धृत्वा एव तां प्रांगणम् आनीतवती। हरकोमहोदयया धनिया आदिष्टा - धनिये ! एतानि चणकदलानि तत्र स्थापितानि, तानि नीत्वा घट्टं गत्वा मत्स्यानां भक्षणार्थं सिक्त्वा प्रत्यागच्छतु भवती । यदि तथा न क्रियते तदा गोभ्यः दत्त्वा भक्षणं कारयतु।’’
धनियया किमपि उत्तरं न दत्तं, ततः पुनरपि हरकोमहोदया उक्तवती - ‘‘अहं भ्रातृाजायां गृहीत्वा चलामि । भवती भ्रातृजायायाः प्रावारक - पादवस्त्रादीनि गृहीत्वा आगच्छतु । यथाशक्यं तथा एतत् शीघ्रमेव करोतु, अन्यथा आवां तत्रैव उपविशावः । सूर्योदयसमयः जातः अस्ति ।’’ एवं कथयन्ती सा गृहात् प्रस्थितवती । धनिया स्वकार्ये निमग्ना जाता । सा अचिन्तयत् - वितरणीयवस्तूनि कस्मिन् मुहूत्र्ते स्थापितानि सन्ति, वितरणेन विना एव स्थितानि सन्ति ।
सम्प्रति तारापतिः इत्यस्य स्मरणेन रत्नावल्याः दिनानि व्यतीतानि अभवन् । तस्य वसनानि दृष्ट्वा रोदिति। तस्य अर्धोक्तवाक्यानां स्मरणं भवति, अश्रूणां प्रवाहः प्रवहति । रोदित्याः रोदित्याः तस्याः नेत्रपक्षणी अश्वयताम् । उत्तिष्ठति तदा तस्याः घूर्णनं भवति । अर्धार्ध - रोटिकां गणपतिमाता तां खादयति ततः गच्छति । सा एतादृशी अबला जाता यत् युवावस्थायामपि सा जराजर्जरिता अतिस्थविरा जाता इति भाति स्म । ग्रामस्थाः स्त्रियः दुःखसंविभाजनार्थं समागच्छन्ति स्म । आदिनं तासां गमनागमनं प्राचलत् । जनानां प्रयासाः एतादृशाः भवन्ति स्म यत् यथासम्भवं रत्नावली एकाकिनी मा तिष्ठतु । पठ्यमानाः छात्राः विना पट्टिकां, विना मसीपात्रं, विना लेखनीं च गमनागमनं कुर्वन्ति स्म । छात्राणां गृहजनाः तेभ्यः निवेदयन्ति स्म यत् गच्छन्तु, तत्रैव रत्नामातुः समीपे खेलादिकं कुर्वन्तु येन तस्याः मनः दुःखात् दूरं भवितुं शक्नुयात्।
एवमेव दैनिकं जीवनं पुनरपि मन्दं मन्दं प्रसर्तुम् उद्यतम् । मनः नवसन्दर्भाणाम् अनुसन्धानं कर्तुं प्रयत्नपरम् अभवत् । बाणान् स्वसमीपे दृष्ट्वा सा प्रसीदति स्म । बालगोपालेषु मनः अरमत । तस्मिन् समये सा तारापतिं विस्मरति स्म । प्रत्येकबालके तारापतिः इत्यस्य शरीराकृतिं द्रष्टुं सा प्रायतत । शनैः शनैः मनसः दुःखं निर्गन्तुं प्रारभत ।
दीर्घकालं यावत् सत्यं निराकर्तुं न शक्यते । तस्य नाम्ना रोदनेन सः आगच्छेत् इत्यपि न शक्यम् । अतः पुनः पुनः रोदनं कृत्वा संसारे प्रदर्शनमण्डनम् अपि अयोग्यमेव। धैर्यैण कार्यं कर्तव्यम् । अन्यथा जनाः कथयिष्यन्ति, महती साहसवती भवितुम् इच्छति स्म, परन्तु एषा भीरुः जाता अस्ति । मनःस्थं दुःखं किमर्थं बहिः करणीयम् ? संसारसम्मुखे सामान्या भूत्वा एव तिष्ठामि।
एतादृशं विचारं कृत्वा सा सहसा एव परिवर्तिता जाता । जनाः तां प्रबोधयितुं बहुप्रयत्नान् अकुर्वन्, परन्तु तस्याः प्रबोधनं किंचिदपि न जातम् । यदा तस्याः मनः स्वयमेव तां प्राबोधयत्, तदा तत्सर्वं तस्याः ज्ञाने सम्यक् प्रकारेण आगतम् ।
कानिचित् दिनानि यावत् हरकोमहोदयायाः मनसि एकः प्रश्नः उद्भूतः आसीत् । तथा प्रश्नकर्तुं कतिपयवारं तया भूमिकापि रचिता अवर्तत । इदानीं सा अमन्यत - ‘‘सम्प्रति सम्प्रति तत्प्रश्नस्य पृच्छाकरणे विलम्बः न करणीयः ।’’
इति विचारं कृत्वा किंचित् भयं धृत्वा सा अवदत् - ‘‘भ्रातृजाये ! एकः प्रश्नः मनसि उद्भूतः अस्ति ।’’
रत्नावली तत्कथनविषये उदासीनतां प्रदश्र्य अपृच्छत् - ‘‘किं कथनम् ?’’
सा तत्कथनम् एकश्वासेन एव अकथयत् - ‘‘इदमेव तत्, भवती गुरुवर्याणां दर्शनं कृत्वा आगच्छतु । भवत्याः स्थित्याः ज्ञानमपि तेषां भवेत्, ततः किंचित् सम्भवेत् यत् ते किमपि चिन्तयेयुः, बोधमपि गृह्णीयुः ततश्च गृहं प्रत्यागच्छेयुः ।’’
एतदाकर्ण्य रत्नावली चिन्तयन्ती अवदत् - ‘‘पश्यतु हरकोमहादये ! अहं तान् सम्यक्तया जाने । ते अत्र नैव आगमिष्यन्ति । मम गमनेन तेषाम् आस्थासु कदाचित् आघाताः भवेयुः यथा मम...... तथा ..... ।’’
हरकोमहोदया उक्तवती - ‘‘भ्रातृजाये ! भवत्या एतत् तु चिन्तनीयमेव यत् मुन्न्ना इति तारापतिविषये वार्ता ननु दातव्या एव गुरुवर्येभ्यः । ते विद्वत्पुरुषाः वर्तन्ते, अतः कश्चन उपायः तैः सूच्यते एव ।’’
रत्नावली हरकोमहोदयायाः मनोरक्षणार्थं कथनं परिहरन्ती अगदत् - ‘‘पश्यतु हरकोमहोदये ! इदानीमपि मनः सुस्थितं नास्ति । कदाचित् मनः सिद्धं भवेत् तदा नूनं पश्यावः।’’
हरकोमहोदया ज्ञातवती यत् मम कथनं परिहृतं जातं विद्यते । तथापि तया धैर्यं न त्यक्तं पुनश्च उक्तम् - ‘‘भ्रातृजाये ! कदा भवती माम् आज्ञां करिष्यति तदा अहमपि भवत्या सह प्रस्थातुं शक्नोमि । भवत्याः निमित्तम् एव गुरुवर्याणां दर्शनलाभः भवेत् ।’’
एतत् श्रवणपथेन गृहीत्वा क्षीजन्ती सा अवदत् - ‘‘तिष्ठतु एतत्, तान् अन्वेष्टुं कुत्र गच्छावः ? अद्यपर्यन्तं तेषां किमपि ज्ञानं जातं वर्तते वा ? एतत् कथयतु ।’’
एतत् आकण्र्य रकोमहोदयायाः मुखाकृत्यां निराशता प्रकाशिता जाता काचित् । तथापि सा अवदत् - ‘‘स्थानादिसंकेतः न प्राप्तः । परन्तु ते कुत्र गताः स्युः । ते कुत्रापि कस्मिन्नपि तीर्थे एव भवेयुः ।’’
रत्नावली अवदत् - ‘‘रममाणः योगी, प्रवहत् जलं चेति एतयोः किं स्थानम् ? कुत्रापि (धूनी) साधना संरताः स्युः पुनश्च वयं स्त्रीजनाः, तान् अन्वेष्टुं कुत्र सम्भ्रमामः ?’’
एतत् कथयित्वा सा कंचित् विलम्बं यावत् मौनं धृतवती । हरकोमहोदयया ज्ञातं यत् सा कस्मिन्नपि चिन्तने निमग्ना अस्ति । हरकोमहोदयया प्रश्नभृतदृष्टिपातः कृतः इति दृष्ट्वा सा अवदत् - ‘‘हरकोमहोदये ! पश्यतु, एते बालाः मया किमपि पाठिताः आसन् तत्सर्वं तैः विस्मृतं स्यात् । साम्प्रतम् अस्माभिः पुनरपि पठन - लेखनकार्यं समारब्धव्यम् ।
तया अनुमतं यत् सा आनन्देन उच्चालिता जाता । झटिति तत्कथनम् अभिवर्धमानतां नयन्ती सा अवदत् - ‘‘भवत्याः अयं विचारः अतिशुभकरः विद्यते । सर्वे बालाः पुनः पुनः गमनागमनं कुर्वाणाः विद्यन्ते । मया सर्वेभ्यः निवेद्यते । श्वः आरभ्य सर्वैः बालैः आगमनारम्भः कर्तव्यः’’ इति । एतत् कथयन्ती सा गृहात् बहिः निर्गता ।
बालकानां पठनं पुनरपि समारब्धं जातम् आसीत् । एकस्मिन् दिवसे रामाबन्धुना हरकोमहोदयायाः माध्यमेन सन्देशः प्रेषितः, भ्रातृजायायै निवेदनीयं यत् अहं गुरुवर्याणां गवेषणं कर्तुं प्रयत्नपरः जातः अस्मि । ते कुत्र सन्ति इति । यदा तेषां संकेतादिविषये ज्ञानं भवेत् तदा तत्र गमनार्थं सिद्धता तया करणीया इति । ग्रामस्थ्जनानामपि अयमेव अभिप्रायः वर्तते ।’’
सा अचिन्तयत् - ‘‘ग्रामस्य अयम् अभिप्रायः मया मन्तव्यः एव ।’’
अनेन प्रसंगेन गोस्वामिवर्याणां दर्शनेच्छा पुनरपि अधिकतया उत्तेजिता कृता । सा अचिन्तयत् - किं ज्ञानं स्वामिवर्याः कुत्र भविष्यन्ति ? रममाणः योगी, प्रवहत् जलं चेति एतयोः किं स्थानम् ? परन्तु रामाबन्धुः यस्य कार्यस्य निश्चयं करोति तस्य कार्यस्य पूर्तिं कृत्वा एव तिष्ठति । अधुना तेषां दर्शनलाभः अवश्यं भविष्यति ।
- - - - - - - - -