रत्नावली-11 संस्कृतानुवादकः पं. गुलामदस्तगीरः
लेखकः
डा. रामगोपाल ‘भावुकः’
संस्कृतानुवादकः
पं. गुलामदस्तगीरः मुंबई
सम्पादकः
डा. विष्णुनारायण तिवारी
रत्नावली - 11
राजापुर - ग्रामः यमुनातीरे स्थितः वर्तते, रत्नावल्याः गृहं यमुनातटे अस्ति । गृहमुखद्वारम् अभियमुनाम् आसीत् । गृहात् निर्मगमनानन्तरं एव दृश्यते यमुनाप्रवाहः । विपुलधान्यदा मृतिका, बहुसस्यदायिनी विद्यते । वसन्तस्य सुवासी समयः समाप्तः । ऋतोः परिवर्तनात् जनाः रुग्णतां गम्यमानाः अभवन् । परस्परं स्पर्शनेन यथा रुग्णता प्रसरति तथैव रुग्णता यावद् ग्रामं प्रसृताः । हरकोमहोदया रामाबन्धुश्च पूर्णं ग्रामं यावत् सेवाकार्याय न्यमज्जताम्।
रात्रौ तारापतिः बहु अक्षीणत् । तं शमयन्ती रत्नावली रोदनमुखी अभवत् । तथापि सः नाशाम्यत् । विलपन् एव सः आसीत् । उषःकाले तस्य तीव्रः ज्वरः अभवत् । अर्थात् सः तीव्रज्वरेण पीडितः जातः । सन्देशं सम्प्रेष्य तथा रामाबन्धुः समाहूतः प्रातः एव । सः तारापतिं दृष्ट्वा रत्नावल्याः सान्त्वनां कुर्वन् अवदत् । ऋतुराजवरः अस्ति । अत्र गृहे गृहे एतादृशी एव स्थितिः वर्तते कोऽपि चिन्ताविषयः नास्ति । औषधं ददामि । श्रीरामः सर्वं साधु करिष्यति।’’
रत्नावली समतुष्यत् । हरकोमहोदया रामाबन्धोः प्रंशसां कुर्वती अभणत् - ‘‘एतस्मिन् ग्रामे एकः भवान् एव अस्ति । बन्धो, भवते एव गुरुवर्यैः सर्वे स्वमन्त्राः शिक्षिताः ।’’
एतत्कथनसमये स्मरणे आगतं तदा पेटिकायाम् औषध - पोट्टलिका आसीत् तां गृहीत्वा सा प्रत्यागता । रत्नावली क्रुद्ध्वा ज्येष्ठस्य गृहं अतवती आसीत् ततः पोट्टलिकाम् आनीतवती, तां पोट्टलिकां रामाबन्धवे ददाना उक्तवती - ‘‘एषा पोट्टलिका दीपावल्यां - स्वच्छता - समये पेटिकायां प्राप्ता । एतां गृहाण ।’’
रामाबन्धुना पोट्टलिका स्वहस्ताभ्याम् गृहीता । सः पट्टे उपविश्य तां पोट्टलिकां उदघाटयत् । दीर्घकालं यावत् तेषाम् औषधानां परीक्षणं तेन कृतम्, ततश्च उक्त्म् - ‘‘एतस्याम् कतिपय - औषधानि एतादृशानि स्थापितानि सन्ति यत् तेषां ज्ञानमेव न भवति । अधुना तारापतिः इत्यस्य कृते स्वपोट्टलिकायां विद्यमानानि औषधानि यच्छामि अहम् ।’’
इति उक्त्वा सः कतिचित् मूलानि तस्यै दत्तवान् - ‘‘एतानि पुनः पुनः दृष्ट्वा औषधं मुखे ददाना तिष्ठतु भवती । गोस्वामिवर्याणां पोट्टलिकां समय - प्राप्त्यनुसारम् उपविश्य द्रक्ष्यामि।’’
एतत्कथयित्वा सः प्रस्थानमार्गे जातः । तदा रत्नावली अवदत् - ‘‘एषा पोट्टलिका नेतव्या भवता । अस्याः किं कार्यम् ? कदाचित् भवान् अस्यां विद्यमानानि उपयुक्तानि वस्तूनि अन्वेष्टुं शक्नोति ।’’ ततः रामाबन्धुः तां पोट्टलिकां गृहीत्वा विनिर्गतः ।
रत्नावली प्रस्तरोपलसहाय्येन औषधिमूलानि अपिनट् । तत् मधुमिश्रितं कृत्वा तस्य आस्वादने सा समारभत । श्रीरामस्य आधारं ग्रहणार्थं सा स्वार्चनायै समयवृद्धिम् कर्तुम् ऐच्छत् किन्तु तारापतेः रोगः वर्धितः । यदा अर्चनार्थम् उपविशति तदा तारापतिः इत्यस्य स्वास्थ्यविषये चिन्तनं चलति स्म । अर्चनायां मनः स्थिरं न भवति स्म तथापि अर्चनार्थम् सा नास्तम्भत ।
तारापतिः मातामह मातामह इति कथयित्वा हठाग्रहं करोति स्म । रत्नावल्या महेवाग्रामं प्रति सन्देशः प्रेषितः । ततः वार्ता आगता यत् पितृचरणाः अद्यापि नहि आगताः । तेषां काचित् सूचना अपि न प्राप्ता । रामाबन्धुः प्रतिदिनं त्रि - चतुर्वारं गमनागमनं करोति स्म । तथापि ज्वरः न्यूनतां गमनस्य किमपि चिह्नं न प्रादर्शयत् । यदा पुनरपि रामाबन्धुः आगतः तदा तं दृष्ट्वा एव सा अवदत् - ‘‘रामाबन्धो, एतस्य ज्वरः न्यूनतां गमनस्य नाम अपि न गृह्णाति । अधुना एषः जर्र - वर्रायमाणः अपि जातः अस्ति । यदि पुनः किमपि नास्ति तदा पर्वत प्रदेशीयग्रामे कश्चन वैद्यः स्यात् तदा सः आह्ननीयः । यदि तत्र न भवेत् तर्हि चित्रकूटं प्रति कमपि सम्प्रेष्य वैद्यः आहूतव्यः । अवश्यं तत्र कश्चन योग्यः वैद्यः भवेद् एव ।’’
एवं श्रुत्वा तस्य हृदयं कम्पितम् उक्तवान् च - ‘‘भ्रातृजाये, पर्वतीयप्रदेश - ग्रामेषु कोऽपि वैद्यः एव नास्ति । अधुना प्रश्नः अस्ति चित्रकूटस्य तदा तदर्थं कमपि अहं प्रेषयामि तत्र । ततः तस्य अत्र प्रत्यागमनार्थं द्वौ दिवसौ व्यतीतौ भविष्यतः । तावत् तु तथा एतदेव औषधं चालयतु भवतीं चतुर्थं औषधदानं गच्छति, अधुना पंचवारं औषधम् अन्यदपि एकम् औषधं ददामि । तद् तु रामबाण एव अस्ति । भवत्या चिन्ता नैव करणीया । अद्यैव नदीतटे उपविश्य तद् आनीतवान् अस्मि । यदि अनेनापि लाभः न भवेत् तदापि भवत्या चिन्ता न करणीया । अहमन्यद् औषधं दास्यामि । आम्, एका चिन्ता ममापि भवति यत् तपन् तपन् अयं ज्वरः दिनत्रये किंचिदपि क्षीणः न जातः । अतः अहं मन्ये यत् कदाचित् मारिमातुः (चेचक) आगमनं जातं स्यात् ननु ।’’
एकं पक्षं यावत् रत्नावली शान्ता स्थिता सा च तारापतिः इत्यस्य मस्तके हस्तम् अस्थापयत् । मस्तकं तपति स्म । तथा तस्य शरीरे दृष्टिक्षेपः कृतः । शरीरं पूर्णं रक्तवर्णमयं भूयमानं दृश्यते स्म । अवदत् च सा - ‘‘अहमपि इदमेव अनुमन्ये । शरीरं रक्तवर्णमयं भूयमानं वर्तते ।’’
रामाबन्धुना तारापतिः इत्यस्य शरीरे स्वदृष्टिः केन्द्रिता कृता उक्तं च - ‘‘भ्रातृजाये, तत - ननु अस्माभिः एतेषाम् औषधानां निरोधनं करणीयम् । यदा मारिमाता (चेचक) गृहे आगच्छति तदा सर्वाणि औषधानि रुद्धानि करणीयानि भवन्ति । अन्यथा सा प्रकुपिता भविष्यति । तथा ननु श्रीरामः सर्वं शुभं करिष्यति । अस्माकं नूनं श्रीरामे एव विश्वासः । भवती गृहस्य द्वारे उत्खाय अग्निम् निधीयत । अनेन भूतपिशाचबाधाभ्यः रक्षणं भविष्यति । तारापतिः इत्यस्य उपधाने लोहशस्त्रं स्थापयतु भवती । गृहे शाकादीनां तैलदीपाः गन्धः मा भवतु ।
रत्नावली अभणत् - ‘‘यस्मिन् अस्य ज्वरः अभिवृद्धः जातः तदाप्रभृति शाकादि किमपि नानीयते ।’’
रामाबन्धुः अवदत् - ‘‘बाढम्, अहमधुना चलामि । प्रतिदिनं प्रातः एव मातुः मन्दिरं जलसेचनं भवतु, चिन्ता मास्तु, भवती अपि खानपानादिकं कुर्वती तिष्ठतु । यदा भवती रुग्णतां गमिष्यति मदा एनं कः निभालयति ?’’
रत्नावली अगदत् - ‘‘मया किं भवितव्यम् ? भगवान् मम मृŸिाकां संचिनोतु । परन्तु तारापतिः निरोगतां गच्छतु । स्वस्याः कृते मम कापि चिन्ता नास्ति ।’’ एतत् शृण्वन् सः शैयागृहात् प्रस्थितः । तारापतिः इत्यस्य समीपे सा अतिष्ठत् । रामाबन्धुः निर्गतः ।
द्वितीये दिने पूर्णे शरीरे पिटकाः अदृश्यन्त । स्पष्टमेव अभवत् यत् महामाता एव अस्ति इति । तारापतिः दुष्प्रासह्यतया उदविजत । हरकोमहोदया, धनिया, रत्नावली च रात्रिपर्यन्तं उपाविशन् । दिनमपि एवमेव निर्गतम् । रत्नावली नु अन्तम् एव पर्यत्यजत् । केवलं जलं पीत्वा जीवननिर्वहणस्य निश्चयः तया कृतः । किन्तु रामाबन्धोः कथनं श्रुत्वा फलाहारं करोति स्म । रत्नामाता यदा पूजान्ते उत्तिष्ठति तदा श्रीरामस्य भस्म इति कृपावशेषम् आनयति, तारापतिः इत्यस्य शरीरं तेन अवघट्टते कामनां च करोति यत् तारापतिः इत्यस्य शरीरं वज्रवदेव भवतु इति । सा चिन्तने एवमपि अमन्यत यत् अधुना तारापतिः इत्यस्य किमपि अनिष्टं न भवति । एकं क्षणं यावत् मनः प्रसन्नं भूत्वा आनन्दमयं भवति स्म । अन्यस्मिन्नेव क्षणे सा पुनरपि संसारे प्रत्यागच्छति। परन्तु सः आनन्दक्षणः एव तस्यां जीवनस्य उत्साहपूर्तिं करोति स्म । एवम् आशाकांक्षाणां चिन्तने निमज्जती अवतरन्ती चेति तस्याः समय यापनं प्राचलत् ।
श्रीरामः मया सह तथा किमपि अशुभं तु न कुर्यात्, नहि नहि, श्रीरामः मया सह एवम् अशुभं न कर्तुं शक्नोति । अहं मम स्वामिचरणाः च भवतः विभाजने आगताः । अस्माभिः श्रीरामविषये अवमाननं कृतम् । मम पराजयः जातः । भवतः तु श्रीरामः किन्तु अहं सांसारिका। अत्र एव मम पराजयः । तारापतिः ननु श्रीरामः इति भवता विभाजने गतः । तस्य पालनं पोषणं चैव मम विभाजने समागतम् । अहं तदपि कर्तुम् असमर्था जाता अस्मि।
हरकोमहोदया प्रसादार्थं चणकदलानि आद्र्रीकृतानि । धनिया चणकदलानि स्फुटितानि जातानि वा न वा इति निरीक्षणे मग्ना जाता आसीत् । वैश्यस्य आपणात् गुडः आनाययितः ।
हरकोमहोदया आगच्छत् । ग्रामे संचरणं कृत्वा सा प्रत्यागता । सायंकालतः जनाः आगम्यमानाः जाताः । दुन्दुभ्यः दुन् - दुनायमानाः ध्वनयः अभवन् । कृपाप्रसादगीत गायिका समागताः । देव्याः कृपाप्रसादगीतं गायनं प्राचलत् ।
तारापतिः इत्यस्य कणनस्य ध्वनिः तस्याः कर्णपथम् आगता। सा पूर्णतया सचेतना जाता । तारापतिः इत्यस्य श्वासः बहुवेगेन प्राचलत् । पुत्रस्य छत्रवदेव सा तस्य सन्निकटे उपाविशत् । वार्ता प्रांगणे प्रसृता जाता । दुन्दुभेः दुनदुनायमानता प्रतिबद्धा कारिता जाता । सर्वाभिः स्त्रिभिः कर्णोपकर्णयोः वार्ता समारब्धा । निश्चितः कृतः। पंचोपहार गीतानि शीघ्रातिशीघ्रतया गीत्वा तेषां समापनं ताभिः इष्यताम् । तारापतिः इत्यस्य अवस्था प्रव्यचलत् । दुन्दुभिः पुनरपि ठुनठुनायमानः अभवत् । स्त्रीभिः झटिति वेगेन गीतगायनं समारब्धम् । इतः रत्नायाः तीव्र रुदनध्वनिः प्रांगणे श्रवणपथम् आगता ।
तस्याः तां ध्वनिं श्रुत्वा सर्वेयत्र आसन् । तत्रैव स्तम्भिताः जाताः । प्रायः सर्वेषां च श्वासोच्छ्वासः रुद्धः एव जातः । विपत्काले हरकोमहोदया साहसं बद्धुम् ऐच्छत् । परन्तु सा अपि पराजयं मत्वा तीव्ररोदनध्वनिम् अकरोत् । हरकोमहोदयायाः ध्वनिः आक्रोशवन्तीषु तीव्रा आसीत् । रात्रौ प्रसृतां स्तब्धतां विपाट्य सा पूर्णग्रामस्य पारतां गच्छति स्म । जनाः धावन्तः समागच्छन्। यथा धावित्वा आगमनार्थं प्रथमतः एव सिद्धाः स्थिताः आसन् ।
रामाबन्धुना अन्तिमक्षणपर्यन्तं तस्यै साहसदानाय नाटकं कृतम् । उक्तं च - ‘‘अरे, इदानीं किमर्थं रोदनं आक्रोशं च कुर्वन्ति, प्रथमं मया द्रष्टव्यं का वस्तुस्थितिः अस्ति ?’’ एकं क्षणं यावत् सर्वजनानां रोदनं रुद्धं जातम् ? रामाबन्धु नाङ्यां स्वहस्तः स्थापितः । नाडिः न प्राप्ता, श्वासोच्छ्वासः च अवरुद्धः जातः आसीत् । तेन पूर्वमेव ज्ञातम् आसीत् । तथापि अन्तिमः प्रयासः करणीयः इति तस्य आशा । तस्य मनः अपि पराजयं न अमन्यत । साम्प्रतं तेन अपि निराशतां गत्वा तारापतिः इत्यस्य हस्तः मुक्तः । स्त्रियः सर्वाः गम्भीरतया व्यलपन् । हरकोमहोदयया धैर्यं धृतं शिरः पाटयन्ती रत्नामाता रक्षिता । रत्नामातुः शुद्धिः विनिर्गता । रामाबन्धुः ज्ञातवान् । यावत् शीघ्रं यथाशक्यं च तथा मृतिकायै स्थानं देयम् । तेन एव तारापतिम् उत्थाय झटिति गृहात् बहिः सः आनीतः । अन्तर्भागे विलापस्य अन्तिमः स्वरः एतादृशः तीव्रः जातः यत् तेन प्रत्येकजनमानसम् एनम् उद्दिश्य व्यलपत् । पूर्णे ग्रामे एतादृशः कश्चिदपि नावशिष्टः येन विलापनं न कृतम् ।
अत्र हरकोमहोदयया तर्जनं कृतं - ‘‘अरे शान्ताः भवन्तु । एतादृशं पुनः पुनः रोदनं कृत्वा आक्रोशं च कृत्वा एनां भ्रातृजायां रत्नां मृत्युं नेतुम् इच्छन्ति वा ? अरे धनिया महोदये, जलस्य गंगासागरम् आनयतु ।’’
धनिया धावन्ती गत्वा जलम् आनीतवती । मुखे जलषेकाः क्षिप्ताः, शुद्ध्यर्थं मन्त्रवदेव वाग्बाणाः क्षिप्ताः उक्तं च - ‘‘अरे भ्रातजाये, तारापतिः सम्यग् अस्ति, भवती तु एवमेव ।’’
कथनं रत्नायाः श्रवणपथं पतितम् । अशुद्धिः निर्गता, तारापतिः इत्यस्य शय्यायां दृष्टिपातः जातः पुनश्च तीव्रः आक्रोशः हन्त हन्त किं जातम् ? किं जातम् ? यत् ........। ततश्च अशुद्धिः विवशता आगता काचन स्त्रियः अवदन् - ‘‘साम्प्रतं किमपि न वदन्तु, कण्ठे जलम् अवतारयन्तु ।’’
हरकोमहोदया मुखमुद्घाटयितुं ऐच्छत् । दन्तावलिद्वयस्य दृढीकरणं मुखे जलमवतारितम् । श्वासेन सह जलं निगीर्णं जातम् । सर्वे जनाः अपि अनया क्रियया आशान्विताः जाताः । गणपतिमाता अवदत् - ‘‘यथा भगवान् स्थापयति तथैव मनुष्येण स्थातव्यम् । संसारे गमनागमनयोः गणनं चलति । तस्य पूर्तिः भवति । तदा कः कस्य पुत्रः ? कः कस्य आप्तेष्टः ? का कस्यमाता ? एवं सर्वं जगद्दर्शनस्य सम्बन्धः ।’’
शास्त्रिवर्याः गृहं प्रत्यागमिष्यन्ति । ते एतादृशाः निष्ठुराः भवितुं न शक्नुवन्ति संलापाः वर्णमाध्यमेन अन्तर्भागे गच्छन्ति स्म । रत्नायाः चेतना आगता आसीत् परन्तु निष्प्राणवत् पतिता आसीत् । इदानीं किं भविष्यति ? अयं प्रश्नः सम्मुखे स्थितः ?
- - - - - - - - -