ratnavali -10 sanskritanuvadak pan.gulam dastageer in Hindi Classic Stories by रामगोपाल तिवारी books and stories PDF | रत्नावली-10 संस्कृतानुवादकः पं. गुलामदस्तगीरः

Featured Books
  • My Wife is Student ? - 25

    वो दोनो जैसे ही अंडर जाते हैं.. वैसे ही हैरान हो जाते है ......

  • एग्जाम ड्यूटी - 3

    दूसरे दिन की परीक्षा: जिम्मेदारी और लापरवाही का द्वंद्वपरीक्...

  • आई कैन सी यू - 52

    अब तक कहानी में हम ने देखा के लूसी को बड़ी मुश्किल से बचाया...

  • All We Imagine As Light - Film Review

                           फिल्म रिव्यु  All We Imagine As Light...

  • दर्द दिलों के - 12

    तो हमने अभी तक देखा धनंजय और शेर सिंह अपने रुतबे को बचाने के...

Categories
Share

रत्नावली-10 संस्कृतानुवादकः पं. गुलामदस्तगीरः

रत्नावली-10 संस्कृतानुवादकः पं. गुलामदस्तगीरः

लेखकः

रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी

रत्नावली-10

जीवने कानिचन कार्याणि क्रीडावदेव आनन्दं ददति । एवं चिन्तयित्वा रत्नावली पठनेन - पाठनेन च क्रीडावदेव एतादृशमेव आनन्दं अनुभवति स्म । शास्त्रिवर्याणां प्रथमः शिष्यः गणपतिः इत्यस्य पठन - पाठनस्य दायित्वं स्वहस्ते ग्रहणेन आनन्दानुभूतीः सा अगृह्णात् । तस्य पिता तस्य विधिवदध्ययनं सम्पादयितुं गमनागमनम् अत्र अकरोत् । कतिपय दिनेषु सा एतस्मिन् चिन्तने निमग्ना जाता यत् किं प्रकारकम् अध्ययनं तया समारब्धव्यम् ? परन्तु सर्वप्रथमा समस्या एषा उपस्थिता यत् शिक्षा दीक्षा इति एतत् कार्यं कथं समारब्धव्यम् ? प्राचीन- तथ्यानाम् आकर्षणम् इति विषये किमपि अप्रशस्तं नास्ति । बालमनसाम् उपरि अस्य अनुकूलः परिणामः भवितुम् अर्हति । अहमपि प्राचीन - ऋषिमुनीनाम् आश्रम - प्रणालीवदेव एतस्मै रूपं दातुम् इच्छामि । एतदेव रूपं रक्षितुम् इच्छामि । परन्तु श्क्षिाद्वाराणि सर्वेषां केषामपि कृते मुक्तानि स्थापयितुम् इच्छामि । प्रश्नः उपस्थापितः अभवत् । अपि, अहं शूद्रेभ्यः मुस्लिमेभ्यः च मम आश्रमे स्थानं दातु शक्नोमि वा ? स्थानं एतादृशेभ्यः न दत्वा मानवताविषये अन्यायः भवेत्, एतदर्थमेव अस्माकं देशः मुगलानाम् अधीने जातः वर्तते । जनाः अद्य प्राचीनम् इतिहासं विस्मरन्ति । समाजः अशोकस्य शासनस्य कल्पना एव जनमानसतः दूरं गम्यमाना जाता विद्यते । सा पुनः जागृता करणीया भवेत् । यदि कश्चन मुल्लिमः भूत्वा अपि स्वयमेव आश्रमे प्रवेष्टुम् इच्छति तदा अस्माकं कृते गर्वस्य विषयः भवेत्।

बकरीदी स्वपुत्रं रमजानं पाठयितुम् इच्छति । यथा द्रोणाचार्यैः एकलव्यः अपमानितः कृतः तथा एव मया अपि कस्मैचित् शिक्षां दातुं नकारः देयः ? यदि मया तस्मिन्नेव पथि प्रचल्यते तदा गणपतिः पठनार्थम् आगमिष्यति किम् ? नागमिष्यति वा ननु ? सः अन्यबालकैः सह पठितुं शक्नोति । जनाः एतत् किं मन्यन्ते यत् शूद्राणां कृते पठन - पाठनाधिकारः नास्ति । मया विद्रोहार्थमेव जन्म गृहीतं वर्तते । अतः नूनम् इदं कार्यं मम स्वहस्तगतं कर्तुं प्रयतिष्ये । अहं एतद् जानामि यत् जनाः मां किं किं न वदिष्यन्ति ? कथयन्तु, वदन्तु, अहं किमर्थं प्रमादं न करोमि? इदानीम् अहं जनान् न गणयामि । अनेन प्रकारेण चिन्तने किं किम् आगच्छति । बकरीदी एकस्मिन् दिने स्वपुत्रं पाठनार्थम् उपवेश्य तस्याधीने विनिर्गता ।

यदा एषा वार्ता ग्रामे प्रसृता, तदा विरोधकरणाय जनैः संयोगः अधिगतः । गृहे गृहे चर्चा समारब्धा । बकरीदी इत्यस्याः गृहस्य ततः भिन्नमेव वातावरणं सज्जातम् आसीत् । रमजानस्य ज्येष्ठबन्धुः हसनखानः मातरमुद्दिश्य अखिद्यत । कथयति सः - ‘‘मातः, अधुना भवती अल्लाहस्य कृपया रमजानं शास्त्रिणं करोति । अरे मदरसा इति अरबी - पाठशालां किमर्थं तं न प्रेषयति ? कामपि रीतिं वा सः पठिष्यति तत्र । पुनश्च अस्माकं गृहे सीवनकार्यं पूर्णतां नेतुम् असमर्थता अपि अनुभवपथम् आयाति । एतस्मिन् कार्ये अपि अस्य सहभागः भवेत् ।’’

बकरीदी अभणत् - ‘‘सभ्यजनतः सभ्याचरणं नूनमेव अध्येष्यते वा न वा ? कथयतु।’’

विवशतां गत्वा तेन समर्थनं समारब्धम्, अवदत् च - ‘‘एतत् तु सुष्ठु विद्यते । परन्तु मातः भवती किमर्थं न जानाति ? यत् एषः इस्लामस्य अपमानः वर्तते ।’’

बकरीदी केनचित् अधिकक्रोधन उक्तवती - ‘‘असाधु, असाधु, हसन, भवान् एतत् किं जल्पति ? पठने लेखने च इस्लामस्य अवहेलना मन्यते, तदा अयम् इस्लामः हीनः एव ।’’

हसनेन हिन्दुधर्मविषये स्वक्रोधः विवृतः - ‘‘मातः, रत्नावल्या इन्द्रजालेन भवती प्रभाविता कारिता वर्तते, अन्यथा एवं कथनं भवत्याः न भवेत् । अस्माकं पूर्वजाः मूर्खाः नासन् यैः इस्लामः आत्मसात् कृतः । अधुना सः अपि परिवर्तितः भवितुं नार्हति ।’’

बकरीदी इतिहासस्य कानिचन पृष्ठानि निर्दिश्य अगदत् - ‘‘भवतः पितुः पिता मुगलानां सेनायाम् उच्चपदाधिकारं प्राप्त्यर्थं लालसां कृत्वा वंचितः अभवत् ।’’

हसनेन स्वनिर्णयः श्रावितः - ‘‘तथा रत्ना पितृव्या भवतीं पुनः हिन्दुधर्मं स्वीकारयिष्यति किम् ?’’

बकरीदी क्षणं यावत् विचारमग्ना भूत्वा रोदनस्वरेण अवदत् - ‘‘ततः ननु तस्य ज्ञानग्रहणे प्रतिबन्धनं करिष्यामि वा ? किम् ?’’

हसनः अचिन्तयत् - रमजानस्य तत्र प्रथममेवं गमनार्थं मया निरोधनं नैव कृतम् । अधुना विरोधनेन हास्यास्पदमेव भविष्यति । पुनश्च मातरं दुःखतां कृत्वा कः धर्मः रक्षितः भवेत्?’’

एतादृशं मनसि एव विचारं कृत्वा सः अभणत् - ‘‘तथा अस्तु अधुना मातः, भवत्या सुष्ठु एव कृतम् । वयं यत्र वसामः, तत्रस्थानां वार्तादीनां विस्मरणम् अपि न कुर्याम । एषा अपि धरा अस्मदीयानां एव वर्तते ।’’ यदा हसनस्य कथनं श्रुतं तदा बकरीदी आनन्दाश्रूणि - निस्सारयत् ।

अत्र ‘कछिया’ इति जातिविशेषाणां निवासमालिकायां पं. सीताराम चतुर्वेदिमहोदयेन स्वप्रवचनं समारभ्यत । चतुश्चरणे खट्वा पतिता आसीत् । पण्डितः तस्याः उपरि आसनस्थः भूत्वा धीर - गामिरीत्या विलासयन् विराजमानः जातः आसीत् । आसनस्थः भूत्वा एव सः अवदत् - ‘‘किं रे विजयसिंह, एकः कटः किमर्थं न आनीयते भवता भवतः पुत्रार्थम् ? अरे सः अपि किमपि ज्ञानम् अवगच्छेत् । रत्नापुत्री अधुना मुस्लिमान् अपि पाठने सिद्धा वर्तते । ततः भवान् किमर्थं प्रमादं करोति ?’’

विजयसिंहः स्वस्य उत्सुकतां वर्धमाना कृत्वा अभणत् - ‘‘श्रुतं विद्यते यत् रत्नापितृव्या पाठने महन्ति कष्टानि गृह्णाति पण्डितमहाराजाः । सर्वे छात्राः स्वकटान् गृहीत्वा गच्छन्ति तत्र । अष्ट - दशछात्राः जाताः सन्ति इत्यपि श्रूयते । एतद् आकण्र्य पण्डितः अन्तःकरणे पीडितः जातः । अवदत् - ‘‘अरे ! सा किं पाठयिष्यति ? यया स्वपुरुषः पलायितः कृतः अस्ति, इति एतादृश्याः तस्याः अपेक्षाकरणं निरर्थकमेव । अरे, ब्राह्मणानाम् एतत् कार्यम् । पंचांगं दर्शनीयं भवेत् तदा वयं किमर्थम् ?’’

एतदाकर्ण्य रामचरणेन पण्डितस्य कथनस्य समर्थने उक्तम् - ‘‘पण्डितमहोदय, कथयन्ति - ‘‘अल्प - पठिताः हलतः दूरे जाताः अधिकाः पठिताः च गृहतः दूरे स्थिताः ।’’

पण्डितेन रामचरणस्य कथनाय प्रतिसादः दत्तः अगदत् च - ‘‘एतदस्ति सामंजस्यस्य वचनम् । अरे पठनेन लेखनेन च किं रक्षितं विद्यते ?’’

निवासमालिकायाः जनानां सम्मर्दः कथनश्रवणार्थं तत्र जातः आसीत् । रत्नामातुः कार्यावगमनार्थं तत्र जातः आसीत् । रत्नामातुः कार्यावगमनार्थं मनः मनसि एव सर्वे प्रयतन्ते स्म । पठनलेखनविषये जनानाम् उदासीनतायाः भावना वृद्धिंगतकरणे पण्डितस्य अधिकः रसः सर्वान् जनान् बाधते स्म । परन्तु गुरुवाण्याः विरोधः काछी - जातीयानां पूर्णे समाजे केनापि न क्रियते स्म ।

हनुमतः मन्दिरे उपविष्टेषु जनेषु एतादृशी एषा चर्चा प्राचलत् । एषा चर्चा रामाबन्धोः कर्णपथम् अपि आगता यत् धोती इति वस्तुविशेषधारितः पण्डितः अधिकं शीर्षोत्थापनं करोति । भगिनी - पुत्रीसदृशव्यक्तीनामपि तस्य ध्यानं न भवति । रत्नाभ्रातृजायायाः विचाराः सर्वोच्चतमाः सन्ति । सा नूनं सर्वात्मसु प्रभोः स्वरूपं पश्यति । सर्व - चराचरेषु एकः एव आत्मा व्याप्तः अस्ति, ततः भिन्नता कथम् ? गम्भीरमुखाकृतिं तस्य दृष्ट्वा रामदयालः तम् अपृच्छत् - ‘‘रामाबन्धो, किं चिन्तनं चलति ?’’

तस्य मुखात् निर्गतम् - ‘‘एतदेव, रत्नाभ्रातृजाया विषये ?’’

रामदयालः तत् श्रुत्वा सर्वम् अवागच्छत् यत् सः किं चिन्तयति इति ततः अभणत् - ‘‘धोती इति वस्त्रविशेषधारितः पण्डितः पुनः पुनः गमनागमनं कृत्वा कुप्रचारं करोति ।’’

द्वितीयः तस्य सहायकः यः तत्कथनं श्रृणोति स्म इति तेन उक्तम् - ‘‘पं. सीतारामः नु अकथयत् - रत्नावल्याः कारणात् अस्माकं धर्मः नाशतां गम्यमानः जातः वर्तते ।’’

रामाबन्धुः अचिन्तयत् - ‘‘एतेषु पण्डितेषु सामंजस्य कदा आगमिष्यति इति न जाने ।’’

अत्र वसन्तपर्व आगतम् आसीत् । रत्नावल्या इदं पर्व स्वशिष्यैः सह समाराजनीयम् इति निश्चयः कृतः । सर्वे शिष्याः स्व - कटेषु उपविष्टाः आसन् । एतस्मिन्नेव समये रत्नावली वलीके आगतवती । प्रतिदिनवदेव तस्याः चरणौ ते अहमहमिकया अस्पृशन् । चरण - स्पृशनान्ते सर्वे एव स्वस्मिन् आसने उपविष्टाः । सर्वेषां समक्षं काष्ठ - पट्टिकाः आसन् । लेखनी स्थापिता अवर्तत । शुभ्रमृतिका निर्मितमसीपात्रम् अविद्यत । सर्वेऽपि शान्तमुद्रया उपविष्टाः अवर्तन्त । वसन्त - कार्यक्रम - दर्शनार्थं केचन ग्रामस्थाः जनाः अपि आगताः आसन् । अद्य एतस्मिन् अवसरे रत्नमाला रामाबन्धुः समाहूतः आसीत् । सर्वेषां कृते वलीकस्य वेदिकायाम् उपवेशनस्य व्यवस्था कृता जाता । वलीकस्थे व्यासपीठे सा स्वयं विराजमाना जाता आसीत् । एतस्मिन्नेव अवसरे तया भाषणं समारब्धम् ‘‘उपस्थिताः सज्जनाः, मम प्रियाः शिष्याः च, अद्य एतस्मिन् प्रसङ्गे मम मनः किमपि कथनार्थम् उत्सुकतां जनयति । मया यानि पदानि प्रचालितानि तेषां स्वागतं भवद्भिः कृतम् अस्ति, तद् ग्रहणकर्तारं यावत् प्रापयितुं भवन्तः सहाय्यं कुर्वन्ति । अस्माकं देशे चत्वारः वेदाः अष्टादशपुराणानि अष्टोत्तर - एकशत - उपनिषदः तथैव च वाल्मीकिरामायणणेन सदृशाः ग्रन्थाः संस्कृतभाषायां सन्ति । अहम् एतान् बालकान् हिन्दीभाषां पाठयितुम् इच्छामि । सर्वस्यापि विषयज्ञानस्य आरम्भः अस्ति किन्तु अन्तः नास्ति । ज्ञानानुसन्धानस्य अनन्तसम्भावनाः व्याप्ताः वर्तन्ते।’’

‘‘इदमेकं निवेदनं वर्तते यत् अत्र सर्वे बालाः सर्वाः बालिकाः च सहैव उपविश्य समानतया पठितुं लेखितुं च अर्हन्ति । प्राचीनकाले आश्रमशिक्षापद्वतिः अविद्यत । तत्र कृष्णः सुदामा चेति एतौ अपि सहैव समानतया अध्ययनम् अकुरुताम् । उज्जयिनी ननु अद्यावधि शिक्षाकेन्द्रं जातं वर्तते । यथापूर्वं तथैव अद्यापि अस्ति ।’’

‘‘अवसरे एतस्मिन् इतिहासस्य दोषान् पुनरुक्तिं कर्तुं नेच्छामि । भवद्भिः ज्ञायते एव यत् कौरव - पाण्डवानां गुरुपदे के आसन् ? अस्य प्रश्नस्य उत्तरं भवेत् यत् द्रोणाचार्याः इति । गुरुदेवैः राजकुमारैः सह अध्ययनार्थम् एकलव्याय अनुमतिः न दत्ता । एक - पात्र - अपात्र - परिभाषा निर्मिता गठिता च जाता तस्मै च शिक्षादानस्य नकारः दत्तः जातः । गुरुचरणैः एतादृशाः भेदभावाः कत्र्तव्याः इत्येतद् न शुभकरम् । एकलव्ये निष्ठा अधिष्ठिता आसीत् । अभ्यासवृति चापि आसीत् । अतः सः अर्जुनात् अपि अधिकः श्रेष्ठः धनुर्धरः संजातः । तेन शब्दवेधि - शरैः पाण्डवानां शुनः मुखं पिनद्धी - कृतम् । अर्जुनः एतद् नासहत । गुरुचरणाः दत्तवचनेन स्मारिताः तेन । ततः एकलव्यस्य दक्षिणहस्तस्य अङ्गुष्ठः दानरूपेण गृहीतः । जानन्ति भवन्तः ततः किं जातम् ? ततः भिल्लजातीयैः एका सभा आकारिता । तस्यां सभायां तैः निर्णयः कृतः । तथा स्वराज - कुमारस्य पीडा स्वाङ्गुष्ठप्रयोगेण विना आत्मसात् कृता तैः । भवद्भिः ज्ञानं स्यादेव यत् अद्यापि भिल्ल - जातीयाः जनाः धनुर्बाणयोः प्रयोगे अङ्गुष्ठस्य उपयोगं नैव कुर्वन्ति । ते एतस्याः प्रतिज्ञायाः माध्यमेन युगानुयुगं यावत् अत्याचारस्य एतस्याः कथायाः प्रबोधनं जनजीवनं यावत् कुर्वन्तः स्थास्यन्ति ।’’

‘‘भवद्भिः ज्ञातं स्यादेव, अहं किं कथयितुम् इच्छामि इति । अहं नैव इच्छामि यत् मम कारणात् प्रतिभा कमपि नवगण्डं बध्नीयात् । गुरुषु एकतायाः एव दृष्टिः भवतु । युगः परिवर्तितः भवति । माता स्वपुत्रेषु समानरूपेण स्निह्यति, यथेच्छं सः पण्डितः, भवतु, वीरः व्यापारी, सेवकः वा भवतु ।’’

अनेन एव भेदभावेन अद्य देशः विदेशीयैः आक्रान्तः जातः वर्तते । एनम् उद्देशम् आश्रित्य चिन्तनस्य आवश्यकता समुपस्थिता अस्ति । यदि शास्त्रिवर्याः अभविष्यन् तदा भवतां समक्षं व्यक्तरूपेण मम आगमनं नाभविष्यत् । ते स्वलक्ष्यम् उद्दिश्य निर्गताः सन्ति । अहं मम लक्ष्यस्य गवेषणे प्रयत्नपरा अस्मि । परिवर्तनं युगस्य आवश्यकता वर्तते ।

नूनमेव मम एषा एव पूजा अस्ति । एतदेव लक्ष्यम् जयतु जयतु सीतारामः । सर्वेषां मुखात् निःसृतं जयतु जयतु सीतारामः । ततश्च ते शान्ततया स्व - स्वगृहं निर्गताः । गमनसमये रामाबन्धुः आख्यात् - ‘‘भ्रातृजाये, भवती यत्करोति सः एव सत्यमार्गः अस्ति ।’’

- - - - - - - - -