रत्नावली
लेखकः
डा. रामगोपाल ‘भावुकः’
संस्कृतानुवादकः
पं. गुलामदस्तगीरः मुंबई
सम्पादकः
डा. विष्णुनारायण तिवारी
रत्नावली - 3
जामाता वैराग्यं स्वीकृतवान् इति यदा दीनबन्धुपाठकमहोदयैः श्रुतं तदाप्रभृति ते अपि मनसा पूर्णाः विरागिणः जाताः आसन् । गृहस्थावस्थायां च मोहः तेषां नावशिष्टः आसीत् । तेषां पत्नी बहुपूर्वम् एव स्वर्गस्था जाता आसीत् । भ्रातृजाया, भ्रातुः पुत्रः गङ्गेश्वरः, गङ्गेश्वरस्य पत्नी शान्तिः, रत्नावली, तस्याः पुत्रः तारापतिः इत्यादीनां गृहसदस्यानां भारः न्यूनः नैव आसीत् । गृहचालनस्य दृष्टिमनुसृत्य मनसा विरागिणः भूत्वा अपि पाण्डित्य - वृत्ति - त्यागं कर्तुं न सिद्धाः जाताः आसन् । गृहं त्यक्त्वा संन्यासग्रहणार्थंम् अस्याः विरोधः भवति स्म। सम्पूर्णे दिवसे एतस्याः विद्रोहिण्याः कन्यायाः विचारधाराम् आश्रित्य तर्काः वितर्काः च मनसि समुद्भवन्ति स्म ।
महेवा ग्रामे किमपि मन्दिरं नासीत् । केचित् लघुस्तरीयाः जनाः कबीरपन्थीयाः जाताः आसन् । रात्रौ बहुविलम्बं यावत् ‘कबीरस्य साखियाँ’ इति गानानि ते गायन्ति स्म । एकः गायति अन्ये सर्वे अनुगायन्ति स्म । बाल्यावस्थातः एव रत्नावली तानि गानानि गृहे उपविश्य एव शृणोति स्म । तया तानि गानानि गीतानि अपि आसन्। पितृचरणाः कबीरस्य विचारधारायाः विरुद्धाः आसन् । एनां विचारधाराम् आश्रित्य पिता पुत्री चेति एतयोः तर्काः वितर्काः चापि प्रचलन्ति स्म। परन्तु साम्प्रतं सा समक्षम् आगत्य स्पष्टं वदति स्म ।
रत्नावल्याः कथनं प्राचलत् - ‘‘कबीरः अपि गृहं गृहस्थीं च त्यक्त्वा विरागी आसीत्। एतादृशमेव वैराग्यं सा अमन्यत। अन्यत् सर्वं सा दाम्भिकत्वेन अगणयत् ।’’
दीनबन्धुमहोदयाः प्रातरेव राजापुरस्य हनुमतः मन्दिरं प्रति गच्छन्ति स्म । यदा कदा ततः प्रत्यागमने बहुविलम्बः भवति स्म ।
सायङ्काले ग्रामस्थः द्वौ वृद्धौ उपवेशनार्थं समागच्छताम् । तदा वार्तालापः चलति स्म । कदाचित् गृह - गृहस्थी - वार्तालापः यदा कदाचित् देशस्य संलापः धर्मस्य चर्चा इत्यादिकं तदा तत्र प्रचलति स्म । अद्यतनीयः देशः इति विषयः आसीत् ।
कन्हैयालालस्य कथनम् आसीत्- ‘‘करालः कालः समागतः अस्ति । सर्वं वातावरणम् दूषितं जायमानम् अस्ति । मुगलानां काले एतैः बालकैः यत् वातावरणम् अनुभूतम् अङ्गीकृतं च तेन सर्वनाशः जातः अस्ति ।’’
अन्येन धर्मस्य चर्चा प्रस्तुता कृता - ‘‘धर्मस्य ह्रासः भूयमानः अस्ति । जनानां धर्मविषये आस्था एव निर्गम्यमाना जाता अस्ति । अप्रामाणिकता, अत्याचाराः इत्येतेषां विप्रलापः वर्धमानतां गतः वर्तते । श्रुतिपथम् आगतं वर्तते यत् मुगलानाम् अधिकारिणः उत्कोचम् अपि गृह्णन्ति । पदाधिकार - प्राप्ति - लोभेन जनाः मुस्लिमधर्मं स्वीकुर्वाणाः भवन्ति । कैश्चित् राजपूतजनैः स्वकन्यानां विवाहः मुस्लिमैः सह अपि क्रियते । अधुना तु तेऽपि तेषां सेवकाः जाताः सन्ति। एतादृशे समये तादृशः कश्चिदपि न दृश्यते यः जनानां दिग्दर्शनं कर्तुं शक्नोति ।’’
तृतीयेन स्वविचाराः प्रतिपादिताः - ‘‘अस्तु एतत् । कबीरविषये किमपि न कथनीयम् । तेन ये विचाराः मण्डिताः सन्ति तथा अद्यावधौ पृथिव्यां केनापि न प्रकटीकृताः ।’’
पाठकमहोदयाः कबीरस्य नामश्रवणेन एव क्रोधान्विताः अभवन् । रत्नावल्याः समक्षं कबीरविषये किमपि कथनं शक्यं न भवति स्म । एतस्मिन् विषये सः एव क्रोधः प्रकटीकरणस्य सम्यक् प्रसंङ्गः समुपलब्धः जातः आसीत् ।
तैः कथितम्- ‘‘यस्य पितुः ज्ञानं नास्ति, जात्याः अपि अज्ञानं, तेन तु धर्मस्य सत्यनाशः एव कृतः वर्तते । श्रुतं विद्यते यत् सः विधवाब्राह्मण्याः पुत्रः आसीत् । सा ब्राह्मणी निमज्जती भूत्वा न मृता । एतावती बृहती यमुना प्रवहति । कः किं कर्तुं शक्नुयात् ? परन्तु मुस्लिमेषु सर्वं चलति । किन्तु अवधाने न आगच्छति यत् हिन्दवः किमर्थं तम् अनुगच्छन्ति ?’’ पाठकमहोदयानां कथनान्ते कोऽपि किमपि कथयितुं न शक्नोति स्म। सर्वैः एव मौनम् आचरितम् ।
यदा आरभ्य रत्नावली पतिराजस्य वैराग्यविषये श्रुतवती आसीत् तदा आरभ्य तस्याः मनसि भिन्नाः भिन्नाः विचाराः समु˜वन्ति स्म । समयः वेगेन परिवर्तितः भवति । समयस्य गतिं चिन्तयित्वा एव कस्यापि पदन्यासस्य आवश्यकता अस्ति । अद्यतनीये समये प्राचीनयुगानुसारेण आश्रमप्रणाली न सम्भवति । पूर्वं चैर्यापहारसदृशीघटना यदा कदा एव श्रवणपथम् आगच्छति स्म। साम्प्रतं तु प्रतिदिनं एतद्विषये श्रोतुं वयं शक्नुमः । शासनं केवलं करग्रहणपर्यन्तमेव सीमितं जातं विद्यते । सर्वकारीयकर्मचारिणः अपि अत्याचारान् कुर्वन्ति । बादशाहम् एव नृपतिश्रेष्ठपर्यन्तं वार्ता अपि न गच्छति । राजा, प्रजाः च एतेषां मध्ये अतिदूरता अभिवद्धा वर्तते । प्रजाजनानां बादशाहः तु ‘राजा’ नाम एते राजकर्मचारिणः एव । बादशाहः इति अस्य राजा - प्रजाजनानां दुःखादिविषये कथं भवेत्? राजपूतानां वीरता क्षीणा जाता अस्ति ।
अत्र मनुष्यस्य अपि हृदयपरिवर्तनं जातं विद्यते । पूर्वं मनुष्यः संसारे स्थित्वा अपि सन्तुलितं जीवनं जीवति स्म । अधुना एवं न भवति । अहोरात्रं यावत् विषयवासनासागरे निमग्नः भूत्वा सः स्थातुम् इच्छति । एतादृशाय मनुष्याय उपदेशदानान्ते सः क्रोधमेव प्रदर्शयति ।
भवन्तः सुन्दरतायाः उपासकाः आसन् । तथैव तु भवन्तः विषयवासनायाः अपि उपासकाः अवर्तन्त । सुन्दरतायाः अयमेव उपयोगः विद्यते किम् ? यत् विषयवासनायाः कार्यं भवेत् । सुन्दरता - वासनामयी भवतु इति भवतां कः धर्मः आसीत् ? अत्र भवन्तः धर्मस्य महत् महत्वं कथयन्तः भवन्ति स्म । यदा मया धर्मलेखायाः वार्ता कृता तदा भवद्भि: मम सम्बन्धः एव त्यक्तः । नार्याम् अपि वासना भवति नु । पुनश्च तस्यां प्रजननम् अपि वर्तते। धर्मः कर्म अपि अस्ति । नियमः संयमः अपि अस्ति । अत्र जीवनमपि अस्ति, मृत्युः अपि अस्ति ।
मादृशीणां नारीणां दाये सुपथः कामना एव तिष्ठति । तेषां यद् लक्ष्यं प्रताडनया जातम् अस्ति तद् यदि प्रेमभावनया जातं स्यात्, तदा इदमेव चिन्तनं कृत्वा सा क्वणनं करोति -
भविता यत् ननु हि प्रताडनया,
अभवत् न हि तत् तु हि कामनया ।
मग्नास्नेहेऽहं नन्विह त्वत्र,
ईश्वरः यत्र त्वं गतः तत्र ।।
तव ननु हि प्रेम्णा सिक्ताहम्,
शक्ता ननु सन्मार्गं गन्तुम् ।
इच्छामि सर्वदा शुभाः सन्तु,
पन्थानः तव शिवदाः भवन्तु ।।
(भवतां यद् लक्ष्यं प्रताडनातः जातं वर्तते, तद् यदि प्रेमभावनातः जातं स्यात्, अर्थात् तद् लक्ष्यं प्रेतभावनातः न जातं विद्यते । अहं तु भवतां प्रेमगीतं गुज्जन्ती स्वजीवनं व्यतीतं करोमि । भवतां पन्थानः वासनाभिः अन्यत्र परिवर्तिताः अभवन् । भवतां प्रीत्याः कल्पनां कृत्वा मम जीवनस्य यौवनगतयः जीविताः भूत्वा उत्तिष्ठन्ति । अहं तु भवतां पथः स्वाश्रुभिः सिञ्चती तिष्ठामि । येन भवतां पन्थानः मम अर्चनाभिः पल्लविताः भवितुं शक्नुवन्ति । अहं तु संसारस्य मर्यादित - भावनाधारेण भावुकतां गता आसम् ।)
महेवा ग्रामस्य कबीर - भजन - मण्डलं दूरातिदूरपर्यन्तं प्रसिद्धं जातम् आसीत् । ग्रामः तु लघुः आसीत् । एतस्मिन् ग्रामे पाठकाख्यानां गृहाणि अधिकानि आसन् । नाविकः, रजकः, चर्मकारः, त्वष्टा, कुंभकारः, मुसलमानः चेत्यादयः सर्वजातीयाः जनाः अत्र निवसन्ति स्म । ग्रामे निम्बवृक्षाणाम् अधिकता आसीत् । अदृढ - भित्तिभि: रचितानि गृहाणि खर्परोल्लोचयुक्तानि अवर्तन्त । एकस्मिन् गृहे गृहद्वये वा दारूणां पटलं कृत्वा तलद्वयस्य गृहाणि निर्मितानि आसन् । तेषामुपरि अपि खर्परोल्लोचः एव आसीत् । ग्रामे किमपि सुदृढं गृहं न आसीत् । ग्रामे भजनकार्यक्रमाः नित्यं रात्रौ सुदीर्घकालपर्यन्तं प्रचलन्ति स्म ।
रात्रौ अतिविलम्बेन कल्याणप्रसादः यदा गृहं प्रत्यागतः तदा तस्य पत्नी लाडोमहोदया तस्मै दूषणदानारम्भं कृतवती - ‘‘सम्पूर्णे दिवसे कष्टं सोढ्वा जीविकोपार्जनं करोति । स्वल्पमपि शयनं न आचरति । रात्रौ निद्रासमयः परन्तु भवतः प्रतीक्षापरा भवामि । न जाने, यत् कथम् एतानि कबीरभजनानि ? अरे, यत्र स्वधर्मस्य विरोधः भवति तद् भजनं किमर्थम् ? पुत्री रत्नावली कबीरस्य महत् महत्त्वं प्रतिपादयति स्म । तया दृष्टं यत् कः परिणामः लब्धः । तुलसीमहोदयाः, धर्मस्य कर्मणः च पण्डिताः आसन् । तथापि किमर्थं तद्विचाराः तैः प्रशस्ताः मन्यन्ते ? अतः एव ते गृहं त्यक्त्वा निर्गताः ।’’
कल्याणप्रसादेन रत्नावल्याः पक्षः गृहीतः कथितं च - ‘‘सा रत्नावली कन्याविद्रोहिणी अस्ति इति वस्तुस्थितिः नास्ति । तया तुलसीमहोदयेभ्यः रामलेखाविषये सत्यं कथितम् आसीत्, ततः तैः अप्रशस्ताः मताः । एतस्मिन् विषये कन्या रत्नावल्याः कश्चिदपि दोषः न आसीत् ।’’ एतत् श्रुत्वा पत्नी लाडोमहोदया मौनम् आचरितवती।
- - - - - - - - -