ratnavali 1 sanskritanuvad pan gulam dastageer in Hindi Classic Stories by रामगोपाल तिवारी books and stories PDF | रत्नावली- 1 - संस्कृतानुवादकः पं.गुलामदस्तगीरः

Featured Books
  • लोभी

          "लोभी आधुनिक माणूस" प्रस्तावनाआजचा आधुनिक माणूस एकीकडे...

  • चंद्रासारखा तो

     चंद्र आणि चंद्रासारखा तो ,जवळ नाहीत पण जवळ असल्यासारखे....च...

  • दिवाळी आनंदाचीच आहे

    दिवाळी ........आनंदाचीच आहे?           दिवाळी आनंदाचीच आहे अ...

  • कोण? - 22

         आईने आतून कुंकू आणि हळदची कुहिरी आणून सावलीचा कपाळाला ट...

  • कथानक्षत्रपेटी - 4

    ....4.....लावण्या sssssss.......रवी आणि केतकी यांचे लव मॅरेज...

Categories
Share

रत्नावली- 1 - संस्कृतानुवादकः पं.गुलामदस्तगीरः

रत्नावली

लेखकः

डा. रामगोपाल ‘भावुकः’

संस्कृतानुवादकः

पं. गुलामदस्तगीरः मुंबई

सम्पादकः

डा. विष्णुनारायण तिवारी


सम्पादकीयम्

ऐतिहासिकग्रन्थानां नायकनायिकानां चरित्रचित्रणविषये लेखनस्य परम्परा भारतीयसाहित्यक्षेत्रे समादृता अस्ति। आदिकाव्यस्य रामायणस्य उपजीविकाव्यमस्ति गोस्वामितुलसीदासेन रचितम् ‘रामचरितमानसम्’ इति। रामचरितमानसस्य रचनाकारस्य गोस्वामितुलसीदासस्य जन्मभूमिः एकः लघुग्रामः। तत्रत्यां सामाजिकीं स्थितिं, ग्राम्यजीवनस्य सूक्ष्मता, भक्तसमाजस्यमकुटमणेः प्रियतमायाः रत्नावल्याः मनोदशाम् अनुभूय एतम् उपन्यासं रचयित्वा स्वकीयां लेखनीं चालयन् डा. रामगोपाल ‘भावुक’ महोदयः तात्कालिकसमाजस्य चित्रांकने सफलः जातः।

‘रत्नावली’ उपान्यासस्य उद्देशः अस्ति सांसारिकजीवनात् वैराग्यं प्राप्तवतः रामभक्तस्य गोस्वामितुलसीदासवर्यस्य पत्न्याः चरित्र-चित्रणम्। अस्मिन् संसारे त्रिविधं दुःखं वर्तते - आधिदैविकम्, आधिभौतिकम्, आध्यात्मिकम् च। एतेषु दुःखेषु एव संघर्षं कुर्वन्तः केचन महत् कार्यं सम्पादयन्ति तेषां च प्रत्यक्षं परोक्षेण वा सहायकाः अपि केचन भवन्ति एव। तेषु अन्यतमा पत्नी। पत्न्याः संगेन, प्रोत्साहनेन, व्यंग्येन, उपालम्भनेन, उत्क्षेपणेन वा बहवः विद्वांसः महत्त्वभूतानि कार्याणि सम्पादयन्ति। तादृशेषु एव गोस्वामितुलसीदासः, यः पत्न्याः उपालम्भप्रेरणया रामचरितमानसं रचयितुं शक्तवान्। गोस्वामितुलसीदासस्य जीवनचक्रम् असामान्यम् आसीत्। पत्न्याः उपालम्भनात् एव शृंगारे कामासक्तः ‘तुलसी’ रामासक्तः संजातः। लोके वादः अस्ति यत् तस्य प्रेरकगुरुः पत्नी एव आसीत् इति। भवेन्नाम यतोहि रत्नावली एका सामान्या स्त्री आसीत् किन्तु रामचरितमानसस्य रचनायां सा महतीं भूमिकां संधारयति।

प्रतिष्ठितस्य मन्दिरस्य गौरवगाथा सर्वैः आख्यायते किन्तु तस्य पृष्ठे परोक्षरूपेण केन, कथं, कियन्ति च कष्टानि सोढानि इति प्रायशः अकल्पनीयमेव। एवमेव रामचरितमानसस्य रचनायै प्रेरणां प्रदात्री रत्नावली कथं जीवनयापनं कृतवती तस्याः च उपरि आवृत्ताः विपदः यथा - पत्युः वियोगः, पुत्रस्य शोकः, कुटुम्बजनानां आक्षेपाः, सामाजिकमर्यादाः, कुलपरम्पराः, ग्राम्यबन्धनानि इत्यादिकं सर्वं सोढ्वा अपि कदाचिदेव नकारात्मकं चिन्तनं न अकरोत्। एतादृशानां त्यागमूर्तिपात्राणां चरित्रचित्रणं कैश्चित् रचनाकारैः पूर्वम् अपि कृतम््।

प्रख्यातेन संस्कृतज्ञेन श्रीमता गुलामदस्तगीरमहाभागेन अस्य उपन्यासस्य संस्कृतानुवादः कृतः। एतस्य अनुवादस्य प्रकाशनं वाराणसीतः प्रकाशितया त्रैमासिकपत्रिकया विश्वभाषया प्रायः पंचविंशतिवर्षपूर्वं कृतम्। संस्कृतानुवादेऽस्मिन् तेन अत्र एकः विशिष्टः प्रयोगः कृतः यत् तुलसीदासाय प्रयुक्तानि वाक्यानि प्रायशः बहुवचनरूपेण अनूदितानि। अतः पाठकेषु निवेदनमिदं विशेषेण यत् तद्धिया एव पठ्यताम्।

बहुकालात् प्रकाशनाय प्रतीक्षमाणः संस्कृतेन अनूदितः एषः रत्नावली उपन्यासः समेषां संस्कृताभिमानिनां भारतीयसंस्कृतिप्रेमिणां च उपकाराय भवेत्।

उपन्यासेऽस्मिन् ये दोषाः दृष्टिपथि भवन्ति तान् सूचयन्ति सुधिपाठकाः इति विश्वासः अस्ति येन आगामिसंस्करणं परिष्कृतं भवेत्।

जयतु सीतारामः।।

सम्पादकः

डा. विष्णुनारायण तिवारी


एवं प्राप्ता रत्नावली - 1

तुलसी स्वपत्न्याः उपालम्भनानि श्रुत्वा गृहं त्यक्त्वा निर्गतवन्तः । तेषां पत्नी रत्नावली सम्पूर्णरात्रौ गृहद्वारे एव स्थित्वा तेषां प्रत्यागमनस्य प्रतीक्षां कुर्वाणा आसीत् । सा चिन्तयति स्म - ‘‘अधुना अहं तेषां स्वागतं सुहास्यवदनेन प्रतिदिनं यथापूर्वम् अनुसरामि’’ । एवं चिन्तयित्वा सा सुहास्यवदनेन पश्यति स्म, परन्तु तस्याः सुहास्यता शङ्का - प्राङ्गणे विलीना भवति स्म ।

अधुना सूर्योदयकालः समागतः । परन्तु ते नैव प्रत्यागताः । ‘‘पति - पत्न्योः मध्ये उपालम्भनानाम् आदानं प्रदानं च प्रचलति एव । भवन्तः अपि स्वसाहित्यिकभाषायां मां किमपि किमपि वदन्ति स्म । मया अपि तथैव किमपि उक्तं ततः रुष्टाः भूत्वा भवन्तः निर्गताः । नैव जानन्ति - अग्रजभार्या किमपि कथने महती वीरा अस्ति, हास - परिहासेन एतादृशम् एवं कथनं कुर्वाणा भवति, अनेन मनः आहतं भवति एव ।

गृहे स्थिताः जनाः यदि जागृताः भवेयुः तदा ते किं कथयेयुः ? भवान् निभृततया श्वशुरालयम् आगतवान् आसीत् । गृहे स्थिताः जनाः यदा जागृताः भवेयुः तदा मम मरणम् एव समापद्येत इति मम स्थितिः गतिः च । अग्रजजायायाः स्वभावः भवता ज्ञायते एव । एतादृशेन भयेन मम मुखतः तादृशानि उपालम्भनानि निःसृतानि । मम ज्ञाने कथं न आगतम् ? एतादृशानि उपालम्भनानि भवता दुःखदायकानि मन्यन्ते’’ इति । ‘‘अन्यथा किमपि मम कथनं न अभविष्यत्’’ इति ।

हा हा राम! यदा प्रातः सर्वे जनाः जागृताः भवन्ति तदा शृण्वन्ति, कथयन्ति च- ‘मया भवतां पलायनं निष्कासनं च कृतम्’ इति । पिता पितृव्या च किं कथयिष्यतः ? मां तीव्रं तर्जयिष्यतः, ततः कः पश्चात्तापः ?

हा हन्त, अहम् अत्र एव स्थिता अस्मि । कुत्र अन्वेषणं करोमि ? एषः रात्रिसमयः, घनान्धकारः च प्रसृतः अस्ति । मन्दं मन्दं वर्षा भवति । तडित् तडतडायते । प्रवेगेन वायुः प्रवहति । एतादृश्यां परिस्थितौ मया कथं कुत्र च प्रस्थानं करणीयम् ? यदा यदा निर्गन्तुकामा तदा तदा विद्युत् द्योतते । ततः किम् ? दूरातिदूरे अपि दृष्टिः मया चालिता । कुत्रापि कोऽपि न दृश्यते । एतस्मिन् समये प्रखरं शब्दापनं करोमि तदा यः तं शब्दं श्रोष्यति सः किं कथयिष्यति ? एवं रत्नावली भ्रान्ता एव जाता ।

मया भवन्तः उपदिष्टः । अरे, गुरुं विना अत्यल्पज्ञानम् अपि न प्राप्नोति कोऽपि । अहं तु भवतां पत्नी अस्मि । गुरुः नास्मि । अहमपि कथम् अस्मि ? स्वयमेव गुरुं मन्ये इति । एता- दृश्यः तिरियः किं किं न वदन्ति ? तदा सर्वेऽपि एवमेव गृहात् निर्गच्छन्ति ? अहं मातृगृहे स्थायिनिवासार्थं न आगता । एकदिनानन्तरं दिनद्वयानन्तरं वा श्वशुरालये भविष्यामि एव । अहं जानामि -‘‘मम विषये भवताम् अगाधं प्रेम अस्ति इति । कथनं तु दूयमानं निःसृतं जातं, ततः अधुना कोऽपि किमपि कथयतु । अहं किं करवाणि ? प्रागाढनिद्रायां निमग्ना आसम् । स्वप्ने अहं किं किं पश्यन्ती आसम् । तदा पदक्षेपणशब्दं श्रुत्वा जागृता अभवम् । सम्मुखे भवतः दृष्ट्वा तदुपालम्भनं मुखात् निःसृतम् । अस्थि - मांसयुक्त - शरीरार्थं भवान् एतादृशः अधीरः भूत्वा भ्रमति नु । एतादृशी अधीरता यदि रामविषये स्यात् तदा उद्धारः भवेत् इति । अरे, तत्कथनं मया परिहासेन एव कथितम् आसीत् । सूर्योदयः भूयमानः अस्ति, शीघ्रमेव प्रत्यागच्छतु भवान् !

अहं जाने - भवन्तः बहुहठाग्रहिनः । मम मातृगृहं मम अनागमनं भवद्भिः क्रियते स्म, तदर्थं मान्यता न दीयते स्म, तत्र श्वशुरालये मम बहवः दिवसाः व्यतीताः जाताः । कथ्यते अपि एकतीरस्य कुक्कुरः अपि वैरी भवति । परन्तु अहं जात्या स्त्री अस्मि । तत्र पितृव्यायाः बहु स्मरणं भवति स्म । पुनश्च अत्र बन्धुः अपि मां नेतुम् इतः तत्र गतवान् । भवन्तः गृहे न आसन् तदा । दिनद्वयानन्तरं भवतां प्रत्यागमनस्य आशा आसीत् ? दिनद्वयानन्तरं भवतां प्रत्यागमनानन्तरं अयं संयोगः न आगमिष्यत्, यत् अहं गृहे एव न अभविष्यम् । अरे, अधुना तु चटकाः चहचहाटं कुर्वाणाः वर्तन्ते । ते न प्रत्यागतवन्तः । कुत्रापि गतवन्तः स्युः । ते कुत्र गतवन्तः ? मम मस्तिष्के किमपि न आगच्छति । मया ते सम्यक्तया ज्ञाताः आसन् । ते यस्य कृते निश्चयं कुर्वन्ति तस्य पूर्तिं कृत्वा एव तिष्ठन्ति । यस्य सङ्कल्पशक्तिः दृढा सः संसारे किं न कर्तुं शक्नोति ?

प्रातरेव बैजूदासः दीनबन्धु - पाठकस्य गृहम् आगतवान् । सः उक्तवान् - ‘पालागन महाराज !’

पाठकेन आशीर्वादः दत्तः - ‘‘श्रीरामः भवन्तं सदा सुखिनं कुर्यात् । कथयतु, अद्य एतावति प्रातःकाले कथं समागतवान् भवान् ?’’

प्रश्नं श्रुत्वा तेन उत्तरं दत्तम् - ‘‘एवमेव आगतः अस्मि । अद्य मम उदरपीडा जाता, ततः पुनः पुनः शौचः । रात्रौ यदा मया शौचालयार्थं ग्रामान्तभूमिं प्रति प्रस्थानं कृतं तदा कश्चित् एकः मनुष्यः भवतः गृहस्य निकटे मया दृष्टः । अहं भीतः जातः, कदाचित् पिशाचः प्रेतः वा न भवेत् । पुनश्च रात्रौ घनान्धकारे कः भवितुम् अर्हति? भवता गृहं गत्वा द्रष्टव्यम् । कदाचित् चौरलुण्ठकः तु न स्यात् । एतेषां मुगलानां शासनकाले कुत्रचिदपि कापि व्यवस्था नास्ति। करः एतादृशीम् अभिवृद्धिं गतः अस्ति यत् कृषीवलानां जीवनं दुष्करं दुःसह्यं च जातम्’’ इति कथयन् सः ततः निर्गतः । पाठकमहोदयः स्वगृहं प्रविष्टवान् ।

दीनबन्धु - पाठकः अपुत्रः आसीत् । अस्य बन्धु - बिन्देश्वरस्य देहान्तः जातः आसीत्। बिन्देश्वरस्य पुत्रस्य नाम आसीत् गङ्गेश्वरः, अस्य भ्रातृजस्य विवाहः जातः । गङ्गेश्वरस्य माता अपि अस्ति । रत्नावली तां ‘‘काकी’’ अर्थात् ‘पितृव्या’ इति वदति । गृहे एतयोः द्वयो: गृहकार्यं प्रचलति स्म ।

यदा पाठकमहोदयः गृहं प्रविष्टवान् तदा तेन सर्वं निरीक्षितम् । तत्र किमपि न ज्ञातम्। गृहस्य किमपि वस्तु विलुप्तं जातं नासीत् । अनेन मिषेण एव सः रत्नावल्याः कक्षं प्राप्तवान् । रत्नावली गृहद्वारे एव स्थिता आसीत् । ‘काकी’ इति पितृव्या ताम् अन्ववगता ।

पितृव्यया प्रश्नः कृतः - पुत्रि, अद्य ग्रामे महान् चौरकोलाहलः जातः आसीत् । भवत्या स्व - वस्त्रादिकं निरीक्षणीयम् । कदाचित् कोऽपि लम्पटः चौर: वा किमपि न चोरितवान् इति । एतत् श्रुत्वा अपि तस्याः शरीरे किमपि चलनं न अभवत् ।

ततः तु पितृव्यायाः मनसि सन्देहः समुत्पन्नः, सा कथितवती - ‘‘भवती मौनेन किमर्थं स्थितवती ? भवत्याः मुखाकृतिः ग्लानतां गता अस्ति । अत्र कारणं किम् इति कथयतु भवती ।’’

तस्याः मुखात् शब्दाः निःसृताः - ‘‘ते आगतवन्तः आसन्, ततः च ते निर्गताः ।’’

पितृव्या तस्याः कथनस्य स्पष्टताम् इच्छति- ‘‘सः कः ? अपि तुलसी ? हन्त, भवत्या तस्य निरोधनं किं न कृतम् ? किन्तु सः रात्रौ निभृततया चौररूपेण आगतः आसीत् ?’’

पितृव्यायाः मुखात् शब्दाः निःसृताः- ‘‘एतादृशः मनुष्यः अस्माभिः कदापि न दृष्टः तथा च कस्याः अपि विवाहः भवति वा न वा ? ततः दिनद्वयार्थं वा कन्याः अखिलविश्वेन निमन्त्रिताः क्रियन्ते ? परन्तु एतद् एतादृशं ......?

इति पितृव्यायाः कथनच्छेदनं कृत्वा दीनबन्धुपाठकः कथितवान् - ‘‘सः आगतः आसीत्, तदा तस्य निर्गमनावरोधनम् अत्यावश्यकम् आसीत् । सः सुकोमलः पादपः ।’’

सर्वे आश्चर्यचकिताः अभवन् । गृहस्य वायुमण्डलं गभीरतां गतम् । गङ्गेश्वरस्य पत्नी शान्तिः ननन्दुः समीपं समागतवती । सर्वविनोदः तिरोहिततां गतः ।

रोदनसदृश - स्वरेण सा रत्नाम् अपृच्छत् - ‘‘भवत्या तु किमपि न कथितं स्यात् ? भवती महती लज्जावती अस्ति । भवत्याः एतादृश - स्वभाव - परिवर्तनार्थं कतिवारं मया किं किं न कथितम् ? परन्तु मम ननन्दुराज्ञाः उपरि मम कथनस्य कोऽपि प्रभावः एव न अभवत् । अरे, सः नान्वमन्यत तदा बन्धुद्वारा आगमनार्थं नकारः सूचितः भवति स्म ।’’

एतस्मिन् एव समये गङ्गेश्वरः समागतः आसीत् । तेन सर्वाणि कथनानि अवगतानि । आगच्छता तेन स्वपत्न्याः कथनमपि श्रुतमासीत् । सः स्वस्य स्पष्टतां ददानः कथितवान् - ‘‘मम एतादृशं ज्ञानं न आसीत् यत् अयं महाराजस्य स्वभावः एतादृशः अस्ति इति । तदा अहं कदापि अस्याः आगमनार्थं नैव कथयामि स्म ।’’

ततः शान्तिः स्वपतिम् अतर्जयत् - ‘‘प्रथमं किञ्चित् मया प्रष्टव्यं किं घटितम्’’ ।

गङ्गेश्वरः एवं कथयन् एव बहिः निर्गतः - ‘‘अरे अधुना स्पष्टतया कथयतु किम् अभवत्’’ ।

रत्नावली उक्तवती - ‘‘अग्रजजाये, मया केवलम् एतावदेव कथितम् अस्ति ननु ।’’ कथनसमये एव तस्याः कण्ठावरोधः जातः । नेत्रयोः अश्रुधारा प्रवहमाना अभवत् । रोदनं समारब्धम् । हिक्किकाः निवारयितुम् सा असमर्था ।

तद् दृष्ट्वा शान्तिः तां प्रगाढालिङ्गनेन उपकण्ठं धृत्वा पृष्टवती - ‘‘कथितं, कथितम् किं कथितम् ? यत् श्रुत्वा महाराजः एतावान् क्रोधान्वितः जातः ? तद् अस्माभिः अपि श्रोतव्यम् ।’’

सा कथितवती - ‘‘मया कथितं यत् अस्थि - मांसयुक्त - शरीरार्थम् एतावन्तः अधीराः भूत्वा परिभ्रमन्ति भवन्तः ननु। एतादृशी अधीरता यदा रामविषये स्यात् तदा भवताम् उद्धार: भवेत् ।’’

शान्तिः अवदत् - हन्त, एतावता कथनेन रुष्टः अभवत् सः । एतादृशे कथने किमपि आधिक्यं नास्ति । तथापि सः रुष्टः अभवत् वा ? एतस्मिन् कथने तादृशं किमपि नास्ति । भवती मा चिन्तयतु, पश्यतु महाराजः एकस्मिन् दिने अथवा दिनद्वये अत्र तत्र भ्रमणं कृत्वा पुनः प्रत्यागमिष्यति । परन्तु ननन्दुः, भवत्या अपि धैर्यं धरणीयम् । एतद् रोदनादिकं तु भवत्या त्यक्तव्यम् एव । यदा सः आगमिष्यति तदा नासिकासंवहनेन विना भवतीं वयं न प्रेषयिष्यामः । महान् विद्वान् भूत्वा परिभ्रमति सः । एतावदपि सः न जानाति, अरे, भार्यायाः परिपालनम् इति क्रीडा नास्ति । हस्तिपालनं नारीपरिपालनं च समानम् एव अस्ति ।’’

अधुना गृहस्य सर्वजनानां मनांसि तस्य निवर्तनतन्तुना आबद्धानि जातानि । यथा नौकापक्षी निबद्धः भवति । तस्य निवर्तनं नौकां प्रति एव भवति । एतदेव आशाकिरणं सर्वेषां बन्धनकार्यं करोति । अनेन सर्वे मन्यन्ते स्म यत् सः अवश्यमेव प्रत्यागमिष्यति इति ।

रत्नावली स्वान्तरात्मनि सर्वम् अपि संस्मरति स्म । ते दिवसाः तस्याः संस्मरणे आगताः यदा पत्या सह आस्तिकं नास्तिकं चेति द्वन्द्वमाश्रित्य वाद - विवादः भवति स्म । भवान् एतावान् महापण्डितः, वेदशास्त्राणाम् आधारेण तर्काः व्यर्थाः सन्ति । कदाचित् ईश्वरः नैव स्यात् । अतएव अस्थिमांसविषये एतावत् प्रेम भवान् करोति । भवतः ईश्वरविषये तर्कः यथार्थः अस्ति अथवा अस्थिमांसविषये प्रीतिः यथार्था । एकस्मिन् असिकोषे असिद्वयस्य स्थितिः न भवितुम् अर्हति ।

कदा कदा अहम् एतान् तर्कान् आश्रित्य एवमपि चिन्तनं करोमि । कुत्रापि कापि ईश्वरीया सत्ता नास्ति । सर्वेषु मानवेषु गृहीतजन्मसु जन्म-जन्मान्तराणां संस्काराः सन्ति । येन अयं मानवः अनेन प्रकारेण चिन्तनं करोति । एते ये महान्तः महान्तः पण्डिताः सन्ति । एते समाजं गत्वा तु समलङ्कृत - प्रौढ - भाषया ईश्वरस्य व्याख्यां करिष्यन्ति । परन्तु गृहं समागत्य एतावन्तः सांसारिकाः भवन्ति यत् एतेषां कथनेन करणेन च महान् भेदः प्रतीयते।

तस्मिन् दिने त्यागः तपस्या चेति एतयोः विषये महत्तमं कथनं भवन्तः कुर्वन्ति स्म तदा एवं भाति स्म यद् भवदपेक्षया अन्यः कोऽपि महत्तमः साधुमहात्मा भवितुं न शक्नोति परन्तु मम निकटे आगमनानन्तरं भवतां पाण्डित्यं कुत्र गच्छति स्म शेषतया पशुत्वमेव गच्छति स्म तत्पाण्डित्यम् । केवलं वासनानाम् एका प्रतिमा । भवताम् अनेन रूपेण मम मनसि घृणा एव उत्पद्यते स्म । भवताम् एतादृशं चरित्रं परिष्कर्तुं बहुवारं चिन्तनम् करोमि स्म । स्वल्पः विचारः भवद्भिः कत्र्तव्यः, यत् किमपि मया कथितं तत् विचारेण विना ज्ञानेन विना च नहि । भवन्तः भगवतः पुरतः उपविश्य मम समीपम् आगत्य कथयन्ति - ‘‘हे रत्ने ईश्वरभजने अपि भवती दृश्यमाना भवति । अहं तु भवत्या एव पूजकः जातः अस्मि । भगवतः मूर्तौ अपि भवती एव दृश्यभावेन समागच्छति ।’’ एतादृशेन कथनेन एवं मया मन्यते स्म भगवतः मूर्तेः सम्मुखे उपवेशनेन कः लाभः ? स्वामिनः भवताम् एतादृशेन कथनेन मम बुद्धिः भ्रान्ता कृता अस्ति ।

भवन्तः भौतिकजगतः यावतीं पूजां कुर्वन्तः आसन्, तेन मया एवं मन्यते स्म यत्, तावत् तत्सर्वमपि भौतिकजगति एव अस्ति, किं कुत्रापि किमपि ईश्वरीयं सत्यं नास्ति वा ?

एतस्मिन्नेव समये पितृव्या केशरबाई तत्र आगतवती । तया च उक्तं - ‘‘किं भवती चिन्तां कुर्वती स्थिता अस्ति वत्से ? पश्यतु भवती, भवतः बन्धुः गङ्गेश्वरः तस्य अन्वेषणार्थं कुत्र कुत्र गत्वा प्रत्यागतः अस्ति । सः नहि प्राप्तः । भवती चलतु उत्तिष्ठतु च प्रातराशं नु करोति ।’’

कतिचित् दिनानन्तरं ज्ञानम् अभवत् यत् सः साधुः जातः अस्ति । यदा एनं प्रसङ्गं रत्नावली श्रुतवती तदा सा अचिन्तयत् - ‘‘भक्तस्य कृते पत्नी बाधाकत्र्री भवति । अयमपि विचारः शरवत् एव मां पीडयति । अनेन नारीस्तरः अतिनीचतां गच्छति । नारी नरकस्य द्वारमिति जनाः कथयन्ति ताः च अपमानिताः क्रियन्ते । धरित्रीमातुः कृते एतादृशम् एतत् सम्बोधनम् अनुचितमेव । नारी केवलं नारी नास्ति सा माता अपि अस्ति । मात्रे एतादृशः अपमानः कथं सह्यः भवितुम् अर्हति । एकदिनस्य वार्तालापः अस्ति । भवन्तः नार्याः बाह्यरूपम् एव द्रष्टुं शक्नुवन्ति । तस्याः अन्तःकरणं द्रष्टव्यमिति भवतां ज्ञानम् अपारम् अपूर्णम् एव तिष्ठति ।’’

मानवीय - संवेदना पुरुषस्य भवतु नार्याः वा भवतु सा तु समाना एव । परन्तु नारीं मार्गावरोधं प्रतिबन्धं वा मन्यमानाः ईश्वरीयसृष्टेः अपमानम् एव कुर्वन्ति ।

प्राचीनकाले ऋषिमुनीनां पत्न्यः नहि भवन्ति स्म किम् ? किं तेषाम् अपत्यानि न भवन्ति स्म? किं वा ते आत्मोत्कर्षच्युताः भवन्ति स्म ? यदि एवं नहि तर्हि गृहे एव स्थित्वा भवन्तः आत्मोत्कर्षं कर्तुं शक्नुवन्ति स्म । एतस्मिन् विषये मां बाधाकत्र्रीम् अमत्वा साध्यकत्र्रीम् एव भवन्तः मन्यन्ते इति ।

अद्यतनीये आधुनिक - युगे गृहं द्वारं च त्यक्त्वा पथिषु भिक्षायाचना शुभकरी न भवति । कालस्य गतेः प्रगतेः च अज्ञानम् अपि न्यायः नास्ति । अद्यतनीये मुगलानां शासनकाले पवित्रता महानसं यावत् परिसीमिता अस्ति । भवन्तः कथं बोधव्याः भवेयुः ? यत् भवन्तः गृहं प्रत्यागमनं कुर्वन्तु इति । मोक्षसाधनं गृहमेव मन्तव्यम् । येन समयानुकूलं परिवर्तनं कृत्वा वंशपरम्पराणां कृते समाचरणमार्गः समुपलब्धः भवेत् । परन्तु भवन्तः हठाग्रहिणः, अतः भवन्तः प्रत्यागमनं न करिष्यन्ति । मनसि यथा अस्ति भवन्तः तु तथैव कुर्वन्ति । मम परामर्शः भवद्भिः शरसदृशः मन्यते । भवन्तः विचारं कुर्वाणाः स्युः यत्, गृहं प्रत्यागमनानन्तरं मम उपालम्भनानि श्रोतव्यानि भविष्यन्ति । अहं तथा नास्मि । भवतां स्वाभिमानः अवमानतां गच्छेत् तादृशं किमपि अहं न करिष्ये । भवद्भिः एकवारम् अवसरं प्रदाय द्रष्टव्यम् इति ।

- - - - - - - - -